पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता “ज्ञानस्वरुपो भगवान् यतोऽसौ ) इत्यंशेन 'इदमस्यात्मकम्, इदं अस्य च नास्त्यात्मकत्वे हेतुरयम्' इत्यप्रतिपादनादाह श्रत मुपादात्त इति । ननु भाण्ने-अशेषक्षेत्रज्ञानावस्थिनस्येति कथं लभ्यते ! क्षेत्रज्ञस्य प्रागनिर्दिष्टत्वात् । न च * यदस्ति यन्नास्ति च विप्रवर्य ' इत्यनेनस्ति शब्देन क्षेत्रज्ञयोपस्थापनमस्तीतेि बच्यम्, 'इदमस्यात्मकम्, इदं नास्त्यात्मकम् इति िवभागानभिज्ञ मैत्रेये प्रित अतिशब्दस्य क्षेत्रज्ञोपस्थापकत्वाभावेनाशेषमूर्तिशब्देन क्षेत्रज्ञामनावस्थितस्य भगवत उपस्थापने प्रमाणाभावादित्याशङ्कय, अस्तिनानि शब्दाभ्यामनुपस्थापनेऽपि ज्योतिरदिशब्दैः संमृष्टवचनैश्चेतनाचेतनयोरुपस्थितिसंभवात् तत्र चाचिच्छरीरके ज्ञानस्वरूपशरीरकत्वोपदेशस्य वा “न वस्तुभूतः ?' इति देवादि शरीरकत्वनिषेधस्य वाऽसंभवात् क्षेत्रज्ञशरीरक एव योग्यतावशेनाशेषमूर्तिशब्देन परामृश्यते । ततश्च क्षेत्रज्ञशरीरको भगवान् ज्ञानस्वरूपः ज्ञानशरीरको भवित (स्वरूपशब्दः शरीरपरः ।) वस्तुत्वरूपदेवाद्विशरीरको न भवतीत्युते क्षेत्रज्ञस्य ज्ञान स्व(४)रूपत्वमस्ति, अर्थस्वरूपदेवादिदेशरीरत्नं नास्तीति फलति । ततश्च देहात्मविवे कोऽपि फलितो भवति । यथा 'अङ्गुलीयकवान्सौ रजतवान्न सुवर्णवान्' इत्युक्त अङ्गुलीयकं रजतरूपं न सुवर्णरूपम्' इति तद्वत्-इत्यभिप्रयन्नाह-अशेषशब्देना चितोऽपीति । वस्तुभावनिषेधोऽनुपपन्न इति । चिच्छरीरकस्य भगवतः, “न तु वस्तुभूतः ) इतिं देवमनुष्यशैलब्धिरादिवस्तुशरीरकत्वनिषेधस्य शरीरभूते अचिदंशे देवमनुप्यदिभावनिषेधपर्यवसितत्वदित्यभिप्रायः । ऋत्विक्प्रचारकर्म विशेषणमिति । यथा परंपरया प्रचारविशेषणमुष्णीषलैौहित्यम् । परम्परयेत्यस्य प्रचारे ऋग्विजां विशेषणत्वम्, तत्र चोष्णीषस्य, तत्र च लोहित्यस्येत्यभिप्रायः । काठिन्यवान् यो बिभर्ति तस्मै भूम्यात्मने नमः ) इत्यत्रात्मस्वरूपे भूमिद्वारा काठिन्यमिति भाव । भाष्ये--यत एवं तत एवेति । ननु क्षेत्रज्ञस्य ज्ञान स्वरूपत्वेन देवादिरूपत्वाभावेऽपि देवदिभेदस्य तद्विज्ञानविजुम्भितत्वमनावश्यकम्, क्षेत्रज्ञभिन्नत्वमात्रेण तद्विज्ञानविजुम्भितत्वस्यानावश्यकत्वात् । इतरथा परमात्मनित्य विभूत्यादेरपि तथात्वप्रसङ्गान् । न च जीवभिन्नस्यानित्यत्वेन सिद्धस्य देवादेतद्वि ज्ञानविजूम्भितत्वमावश्यकमिति वाच्यम्, देवादिभेदस्याद्याप्यनित्यत्वनिश्चयात् ।