पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३छ् अचित्समष्टिभृते तमःशब्दाभिधेय इतेि ! ननु कथं सदमच्छब्दितयोश्चिद यन्न लय इत्यर्थकत्वेनादोषात् | भाष्ये-सत्यं तमःशब्देनेति । ननु त्म:शाब्देनाभि हेितस्यचित्समष्टित्वमिति सिद्धान्तत्ते सत्यमित्यादिनाऽसिमष्टिभूतायाः प्रकृते ; सूक्ष्मवस्थोच्यत इति कथनन्द्यते ! पून् समस एवाचिरसमष्टित्वकथनेन प्रकृतेर चित्समष्टित्वस्य वा तमसस्तत्सूक्ष्मावस्थावस्य वाऽकथनदिति चेत्--न । उभयोरपि विरोधाभावेन तथानुवादोपपतेः । क्रमेणोपादानविवक्षामिति । पूर्वपक्षेपन्यास दशायां *तम आसीत् ? इति वाक्यानन्तरं * मायां तु प्रकृतिम् ? इतेि वाक्य मुपाददानस्य पूर्वपक्षिणे विवक्षमित्यर्थः । तमःशब्दान् सांख्याभिमतप्रकृतिरुच्यत इति शङ्कव्यावृत्त्यर्थं हेि, मायां प्रकृतिं विद्यात् इति बाक्यं तदनन्तरमेवोपातमिति भावः । ननु “ अस्मान्मायी मृजते विश्वमेतन् तस्मिंश्चान्यो मायया संनिरुद्धः । इति वाक्यप्राप्तमायानुवादेन “मायां तु प्रकृतिं विद्यात्' इति वाक्येन प्रकृति शब्दितमुपादानत्वं विधीयते, * दिश्च प्रतिज्ञादृष्टान्तानुप्रोधात् ?' इत्यादी प्रकृतिशब्दस्योपादान एव प्रसिद्धेः | पैरैरपि तथा व्याख्यातस्माव । तत एवोपान मिथ्यात्वस्यापि सिद्धेर्मयातुवादेन प्रकृतित्वं विधीयत इत्येव परेण सुवचमिति चेत् न । प्रकृतिशब्दस्योपादानपरत्वादपि प्रसिद्धिमाचुर्येणाचित्समष्टिप्रकृतेरेखोपस्थित्य॥ तस्या मायात्वरूपनिर्वचनीयत्वविधानस्यैव तन्मतेऽप्युवितत्वादिति भावः । न माया मात्रसूत्रेति । “मायामात्रं तु कास्न्येन ? इत्यादिसूत्रे मायाशब्दस्याश्चर्यार्थकत् प्रतिपादकभाष्येण िवचित्रार्थसर्गकारित्वप्रतिपादकस्यास् भाष्यस्य न विरोध इत्यर्थः । बहुवचनाद्वगम्यत इति । त्वदभिमताविद्याया एकत्वादिति भावः । प्रतिभा सस्तु द्वित्वादिविषयत्वादिति । अविद्यमानचन्द्रद्वित्वादिविषयत्वदित्यर्थः । (छवेिचापरपुराणार्थ:) विशब्दस्य वैविध्यवैपरीत्यरधार्थद्वयपरत्वसंभवमभिप्रयन्नाह-विविध ज्ञायते ऽनेन, विपरीत ज्ञायतेनेति चा करणे व्युत्पत्तिरिति । “करणाधिकरण योश्च ) इति लयुट् । विज्ञानमविद्येत्यत्र प्रमाणमाहं – यदा तु शुद्धमित्यादि ।