पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० श्रीरङ्गरामानुजमुनिविरचिता ततश्चान्याधिकं प्रत्यक्स्त्रे स्वाश्रयदेशावधिकत्वासंसर्गग्रह इत्यर्थः । चन्द्रदेश द्वाविति प्रतीत्यभावहेतुरिति । एकस्य चन्दस्य द्वौ देशाविति प्रतीत्यभामहेतु रित्यर्थः । भाष्ये-युगपद्देशद्वयेत्यन्न यौगपद्योक्तिः शैघ्रयाभिप्राय, एकस्मिन् क्षणे ज्ञानद्वयासंभवात् । भाष्ये-ग्रहणभेदेन ग्राह्याकारभेदादेति । ग्रहण भेदेनेोलिस्यमानदेशरूपग्राह्याकारभेदादित्यर्थ । न तु ग्रहणमेदायतं आह्याकर द्वित्वमिति मन्तव्यम्, आह्याकाररूपदेशद्वित्वस्य ग्रहणभेदानधीनत्वाद् । तत्कृतं ग्राह्याकारद्वित्वं च पारमार्थिकमिति भाप्यस्याप्येवमेवार्थ । केचित्-तत्र सामग्री द्वित्व-ग्रहणद्वित्वषारमाथ्यैसाधनसंरम्भात् ग्रहणद्वित्वेन ग्राह्याकारद्वित्वसमर्थनसंरम्भाच ग्रहणातद्वित्वस्य चन्द्रस्य चासंसर्गाग्रह एव; न तु देशागतद्वित्वस्येतेि वदन्ति । तन्न; प्रभाकरमतप्रवेशापत्य, प्राभाकरमतवैषम्यप्रदर्शकोत्तरटीकाग्रन्थविरोधप्रसङ्गेन च तस्यी पेक्षणीयत्वात् । नेत्रवृत्तिद्विधाभूतेति । ननु क्षेोके द्वित्वं चन्दं चेति द्वित्वमा प्रतीयते । िितगतद्वित्वमिति कुतोऽवसीयते ? नेत्रवृत्तेर्वितिग्रहणसामथ्यभावेन त्रित्तिद्वित्वग्राहकत्वसंभवादिति चेत् - न । “द्वे तु वित्ती वेितन्बती ? इतेि त्रितिगतद्वित्वस्य प्रकृतत्वेन स्वप्रकाशत्वेन च तस्यैव ग्रह्णेोपपत्तेः । (अविद्यापरस्वाभिमतश्रुत्यर्थः) ऋताभावस्य ऋतविरोधिनश्चेतेि । न च घटस्य घटाभावाश्रयत्वात् ऋतस्य ऋताभावाश्रयत्वे को दोष इति वाच्यम्, भावाभावयोः सामानाधिकरण्या सम्भववत् आधाराधेयभावस्याप्यसंभवात् । न चैवै घटे घटाभावाभावे घटसत्त्वा पतिरिति वाच्यम्, घटाभावे घटतदभावयोर्द्धयोरप्यभाववत् घटे घटतदभाक्यो योरप्यभावोपपत्तेः । अत एव प्रपञ्चाभावत्पस्य ब्रह्मणः प्रपञ्चाधिकरणत्वायो:यतया ब्रह्माश्रितस्य प्रपञ्चस्य स्वाधिकरणत्वायोग्याधिकरणकत्वरूपं मिथ्यात्वमिति परे.वदन्ति । अत एव रूपविरोधिनो रुपत्वस्य रूपाश्रितत्वादित्यपि शङ्का परास्ता, अत्र विमाश्य चिनाशकभावलक्षणविरोधित्वस्य विवक्षितत्वात् । तन्मते च ज्ञानरूपब्रह्माणोऽज्ञान नाशकत्वादिति भावः । शङ्कते - पुण्यमपि हीति । प्रतेिवन्दीत्वेनानुसंधेय इति । यदि “नासदासीन्नेो. सदासीतं' इति श्रुतिबलात् तम:शब्दितमकृतेरनिर्वचनीयत्वम्, तर्हि "अनादि मत्परं ब्रह्म न सत्तन्नांस