पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.४९ स्ववतो मात्रामुपादाय स्वयं निहत्य स्वयं निमय स्वेन भासा ब्धेन ज्योतेि। प्रस्वपिति । अत्रायं पुरुषः स्वज्योतिर्भवतेि । न तत्र रथा: " इत्येव श्रुत्याकार तथापीदं वाक्यं तत्समानार्थ लैौकिकमुपात्तं द्रष्टव्यम् । मुख्यार्थत्व इतिं ! स्वामानां सुदादीनां जाग्रत्सुखादिवैलक्षण्यायोगात् विषयाणामेव विलक्षणत्वादित्यर्थः । व्याघातपौनरुक्त्येति । “ न भवन्ति ”, “ स्थान् सृजते ' इति व्याघात

  • सृजते ”, “स हि कर्ता ?' इत्यमयोः पौनरुक्त्यमिति भावः । शिरश्छेदादयः

इत्युक्तत्वादिति छेद दृष्टान्ते चायं भाव इतेि ! तल पीतिमविशिष्टसुवर्छद्रव्यस्यापि भट्टण मस्तीति भावः । चाक्षुषदोषसंसर्गे दुर्वच इति । पितानुपहतनयनानामपि स्फटिके पीतत्वोपलब्धेरित्यर्थः । अदृष्टस्य नियामकत्वादिति । ननु समीपस्थानां 'जलं नास्ति । एतावन्तं कालमिदं जलतयाऽभ्राम्यम् । असदेव जलत्वनभात् ' इत्यादि परीक्षितप्रत्यक्षाणां का गतेिः ? तेषामसंसर्गग्रहृरूपत्वाभ्युपगमे मरीचिकाजल प्रत्यक्षाणामल्पयसामेव तदूपत्वं किं न स्यादिति चेत्-लु । मरीचिकाजलप्रत्यक्षस्य त्रिवृत्करणशास्त्रानुगृहीतस्यासंसर्गाग्रहरूपत्वमनुचितमिति भाष्यकाभिप्राय इति केचित् । समाधते – अपेक्षिकैो हि सव्यदक्षिणभाव इति । स्वभिमुखे दर्पणे स्वापेक्षया विपर्यस्तसन्यदक्षिणभावः सिद्धः । स्वाभिमुलवस्तुन स्वविरुद्धसव्यदक्षिणभावस् संप्रतिपन्नत्वात् । सद्ग्रहणपूर्वकत्वमुखग्रहणे मुखस्य दर्पणस्य चान्तरालरूपविप्रः कर्षस्याग्रहणात् दर्पणस्थत्वासंसर्गाग्रहोऽपि भवति । (तथा दर्पणगतद्विपर्यस्तसव्यदक्षिण भावस्य आभिमुख्यस्य अभिमुखस्य च असंसर्गाग्रहो भवति ।) ततश्च दर्पणस्थत्व स्वाभिमुखत्वविपर्यस्तसध्यदक्षिणभावप्रतीतीनां याथार्थ सिद्धमि(द्धयती)त्यर्थः । ननु सोपाधिकभ्रमे अन्तरालाग्रहणमप्रयोजकम्, दर्पणबिम्वयोरन्तराले पश्यतामपि पार्श्वस्थानां बिम्बे णस्थत्वभ्रान्तिदर्शनादिति चेत्, सत्यम्—उपाधिनिवृत्तिसहितान्तशालग्रहणे भ्रमदर्शनादुपाधिनिवृतिसहितान्तरालग्रहणस्याभावोऽपेक्षित इति तात्पर्यम् । दिगन्तरप्रतियोगिनो दिगन्तरस्य चेति । अस्मिन् प्रदेशे प्रत्यक्त्वभ्रमो जायते, तत्र प्रत्यक्त्वमवध्यन्तरापेक्षयाऽस्त्येव । स्वाश्रयदेशापेक्षया परं नास्ति ।