पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( अविवानुमाननिरासः) २३९ तीत्यत्र तात्पर्यात् । अभावाद्विवेचनमात्रं क्रियन् इति ! न चाभावविवेकस्या प्रकाशितस्य प्रकाशाकतया व्यभिचारस्तदवस्थ इति वाल्वम्, अभावविवेकावारका ज्ञानसत्वेन तन्निवर्तकवस्वानुमिौ संभवेन व्यचि२ाभावात् ! अहमर्थधर्मभृतेति। उत्तरीत्या अभ्याभावविवेचनानुमितित्वेन घ्यभिचाराभावादिति भावः । भावरूपाज्ञानसिद्धिरिति । भावरूपतयाऽज्ञानसिद्धिरित्यर्थः । ज्ञातुरपि तत्कल्पितत्वादिति । ततश्चाज्ञान कल्पिताहमर्थधर्मभूतज्ञानस्यागन्तुकस्यानाछज्ञानभासकत्वासंभवेन । अनाद्यज्ञानभासकं नित्यं साक्षिचैतन्यमभ्युपेयमिति भावः । तदुत्तीर्णसाक्षिचैतन्येनेति ननृत्तीर्ण चैतन्यसिद्धौ भावरूपज्ञानििद्धनपेक्षिता । साक्षद्विस्तर्देकोपयत्वाभावात्, धारा वाहिकज्ञानयुस्वादिभासकत्वेनापि सिद्धिसंभवात् । किंच मामन्यं च न जानामि इति साक्षिचैतन्येनाज्ञानमिद्धेौ साक्षिणोऽहमर्थोतीप्त्वसिद्धिरपि नोपजीव्या । न हेि अयं घटः' इतेि ज्ञानेन धटसिद्धौ घटज्ञानस्य देहान्त:करण:मधर्मत्वादिविवेकोऽपेक्षित इति चेत्-सत्यम् । तस्याः प्रणाङया अपि पौरैरुपन्यस्तत्वात्तद्रीतिमनुप्रयान्यो न्यायश्रय उपन्यस्त इति द्रष्टव्यम् । भाष्ये-सत्यपि दीय इति । ज्ञान्मनुत्पाद्य विषयप्रकाशाकत्वायोगादित्यर्थः । ततश्च ज्ञानेन सहितस्य प्रकाशकत्वमस्तीति शङ्का निरस्त । असिद्धिः फलितेति । ज्ञानस्यैव हेि साक्षात् प्रकाशकत्वमिति तस्यार्थ इति भावः । इन्द्रियाणामित्यनेन कृतीयपक्ष इति । “तहन्द्रियाणामप्युपकारक त्वेन तेषामप्यप्रकाशितार्थप्रकाशकत्वमङ्गीकरणीथम् ? इति भाप्येणेत्यर्थः, न तु

  • इन्द्रिाणामपि ज्ञानोत्पत्तिहेतुत्वमेव न प्रकाशकत्वम् ? इति ग्रन्थेनेतेि भ्रमितव्यम्

एतस्य हेत्वभावसमर्थनपरस्य तद्विरुद्धानैकान्त्यसमर्थनभिप्रायानुपपत्त । “नास्माभि ज्ञानतुल्यप्रकाशकत्वाभ्युपगमेन ? इत्येतत्पन्तभाष्यग्रन्थस्य साक्षात्प्रकाशकत्वरूपपक्ष व्युदासकत्वेन पक्षान्तराप्रतिक्षेपकत्वात् । ननु यदि सर्वत्र ज्ञानस्यैव प्रकाशकत्वम् तहन्द्रियस्य प्रकाशकत्वं न स्यादित्याशङ्कयेष्टापत्या परिहरतेि भाष्ये-इन्द्रियाणामपि ज्ञानीत्पत्तिहेतुत्वमेवेति । मात्रचार्थपरिच्छेदव्युदास इति । अत्र “प्रमाणे द्वयसज्जूदनष्मालच; ) इतेि मात्रच्प्रत्ययः प्रमाणार्थकः । बिरोधिनिरसनपर्यन्तस्वरूपं प्रकाशकत्वं न संप्रतिपन्नमित्यर्थः । न तु *क्षीरमात्रं पिब । इत्थत्रेवोत्तरपदत्वनियत