पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ श्रीरङ्गरामानुजमुनिविरचिता भावेन हेतोरनैकान्त्यमित्यर्थः । यद्यपि परैः परोक्षस्थलमात्र एव वृत्तिनिर्गमाभावेन ज्ञानानिवर्तकत्वस्याभ्युपगमेन परोक्ष्वृत्तिमात्रे व्यभिचारः सुवच , तथापेि परोक्षस्थले विषयावच्छिन्नचैतन्यस्याज्ञानानिवृतावपि प्रमातृगतज्ञाननिवृत्तेरभ्युपेतत्वात् परोक्ष ज्ञानमात्रे व्यभिचारो नोट्टावेित इति वदन्ति । केचित्तु इदमुपलक्षणं परोक्षज्ञान मात्रस्येति मन्यन्ते । अत्र जडविषयकज्ञानमात्रे व्यभिचारश्च घेोध्यः । जडावारका ज्ञानाभावात्, जढस्याप्रसक्तप्रकाशकत्वेन परैरावरणानभ्युपगमात् । न् च जडावच्छिन्न चैतन्याक्षरकमज्ञानं संभवतीति वाच्यम्, घटविषयकज्ञानस्य धटावच्छिन्नचैतन्या वारकज्ञाननिवर्तकत्वस्य भिन्नविषयत्वेनासंभवात् । न च “सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते ? इत्युक्तरीत्या घटादिज्ञानमपि तदवच्छिन्नचैतन्यविषयमिति वाच्यम् “न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्' इत्यादिश्रुतिविरोधात् । तथा हि सति 'घटोऽस्ति ? इति ज्ञाने सपब्रह्मस्फुरणेन ब्रह्मसाक्षात्कारादविद्या निवृतिप्रसङ्गः । न च तस्य ब्रह्ममालविषयकत्वाभावान्नाज्ञाननिवर्तकत्वमिति वाच्यम् दण्डी देवदत्तः' इति विशिष्टज्ञानस्य विशेष्याज्ञाननिवर्तकत्वानापतेरित्यादि दूषणं द्रष्टव्यम् । तस्य प्रमाणज्ञानस्याप्रकाशितार्थप्रकाशकत्वात् इत्यस्यानन्तरं तस्य हेतोः । इति शेषः पूरणीयः । अतः 'स्वविषयावरणाज्ञानान्तरसाधनत्वे सतीत्यस्य नान्वयनुपपत्तिरिति द्रष्टव्यम् । तद्विरोधादेव न हेतोरनैकान्त्यमिति। न चासलिङ्गजन्याथा अप्यनुमितेर्विषयाबाधेन प्रभात्यसंभवान्न विरोध इति वाच्यम् । असलिङ्गस्य प्रभायामसामथ्र्यात् । वह्निमत्पर्वते व्यभिचारिलिङ्गजन्यानुमितेरपर्वतीय वह्निविषयतयो वा पर्वतस्थावाणादौ चह्नित्वविषयतया वा भ्रमत्वावश्यंभावात्, लेिङ्गो पहितलैङ्गिकभानेन भ्रमत्वावश्यंभावचेति भावः । तत्र वृत्त्यभावादिति । अप्रकाशिकार्थप्रकाशकत्वस्याबाध्यव्यवहारानुगुण्यरूपप्रमात्वपर्यवसितस्य तत्रानुमिताव भावादिति भावः । अज्ञानानुमितेः प्रमाश्वे प्रकाशितार्थप्रकाशकत्वस्य व्यभिचारित्वा वश्यंभावेन व्यभिचारिहेतोः भाजनकत्वविरोधः, अप्रमात्वे प्रमात्वरूपहेतोरव्यभि चरिवेन सङ्गित्वावश्यंभावेन तस्याप्रमाजनकत्वविरोध इत्यभिप्रायेण परिहरति उच्यत इत्यादिन । अन्यतरभावेऽपि साध्यसिद्धयभावादिति । ननु.ज्ञान सैौष्ठवमात्रेणापि संध्यं सिध्यतीति चेत् । सत्यम् । तद१ि हेत्वनैकान्येन सिध्य