पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचेिता वाक्यम् । तस्य चायमर्थः-कथं “मामन्यं च न जानामि; त्वदुक्तमर्थ संख्यां वा शास्त्रार्थ बा न जानामि ! इति विषयावच्छिन्नमज्ञानं साक्षिभास्यं स्यात् ? अज्ञानाक्च्छेदकस्थ विषयस्य सक्षिणा भानासंभवात्; साक्षिणो बििर्वषये नैयायिकमते मनस इव स्वातन्त्र्यासंभवात् । इतरथा प्रमाणान्तरवैयथ्र्यप्रसङ्गात् । ततश्चाज्ञानावच्छेदकस्य घटादेः प्रमाणत एव सिद्धिरेष्टव्या । प्रमाणज्ञानं चाज्ञानविरोधि ; न तुं साक्षिवद ज्ञानसाधकम्, येनाज्ञांनं न विरुन्ध्यात् । ततश्चाज्ञानानुभवो न संभवतीति शङ्काभि माय । स्वतो मनोग्राह्यत्वाभावेऽपि परमाणेोः, “ज्ञातः परमाणुः ? इति ज्ञातया मनोवेद्यत्ववत् तत्तदाकारवृत्त्यनुपहितेन केवलेन साक्षिणा स्वतो ग्रहणायोभ्यमपि वस्तुं ज्ञातत्वाज्ञातत्वन्यतराक्रेण सदा भास्यत एव । इयांस्तु विशेषः-वस्तुनो ज्ञाततया भाने प्रमाणव्यवधानापेक्षा, ज्ञाताया: प्रमाणोत्पाद्यत्वात् । अज्ञातायास्तु स्वतः सिद्धत्वादज्ञातया भानें न प्रमाणव्यवधानापेक्षा । ततश्च सर्वमपि वस्तुं प्रमाणा प्रसरणदशांयामज्ञासतथा भासत एवेतिं न विषयभांनार्थे प्रमाणापेक्षा, येनाज्ञानस्य विरोधः स्यात् । साक्षिरूपं च घटादिविषयज्ञानं नाज्ञानविरोधेि, साधकतया तस्य बाधकत्वाभावादिति प्रागेवोक्तत्वादिति परिहाराभिप्रायः । एवमेव हीदं वाक्यं व्याख्यातं तत्वदीपनकृता । इह तुं कथं तद्विहायान्यथांनूद्यत इति । तत्रायं परिहारः-सत्थं विवरणवाक्यै तत्वदीएनकृता तथा व्याख्यातम् । तथापि जडस्ज्ञानविषयत्वमनभ्युपगच्छतो विवरणकारस्य मते प्रत्यगर्थावच्छिमेवा ज्ञानमभूयत इत्येव वक्तयम्, न तु घटादिबिषयम् । ततश्च शङ्कापरिहारौ प्रत्यगर्थ विषयांवेव वक्तव्यावित्यभिप्रेत्य भगवता भाष्यकृता तदनुसारेण शङ्कापरिहारग्रन्थे। योजनीयावित्यभिप्रेत्य तथानूदितमिति द्रष्टव्यम् । (भावरूपाज्ञानानुमानविचारः) उपपादिताकारविशिष्टमिति । प्रत्यक्षेण न्यायानुगृहीतेनाज्ञानस्य भांवरूपत्वं न जानामि । इत्यनेनात्माश्रयत्वं च सिद्धमिति पूर्वमुक्तत्वेन स्वप्रागभावव्यतिरिक्त त्वस्वदेशगतत्वयोः सिद्धत्वादिति भावः । न हि तमो दीपगतमिति । दीपस्यैव प्रभाश्रयत्वात् प्रभादेशस्य प्रभाश्रयत्वं नास्ति, 'प्रभादेशः' इतिवत् 'प्रभाश्रयः ? इति त्यवहाराभावादिति भावः । . वेद्यगतवित्यभिव्यक्तिप्रागभाव इति । वेद्यगत