पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अमाणानुपपत्तिः) ज्ञानाभावस्यं ग्राह्मत्व इत्यर्थः । इतरथा प्राभावस्य यावज्ज्ञानप्रतियोगिकस्यासंभवेन यक्तिविशेषप्रतियेगिकस्चैव वक्तव्यतया तत्र विरोधाभावादिति द्रष्टव्यम् । अभाव धतियात्मनो ज्ञानमस्तीति वक्तव्यमितेि ! अभावधर्मिवादात्मनस्तज्ज्ञानमस्तीति वक्तयमित्यर्थः; न तु धर्मित्वेन प्रकारेण ज्ञानमिति श्रमितव्यम्, तेन रूपेण तज्ज्ञानस्थाहेतुत्वात् । धर्मितया प्रतियोगितयाबगतिरस्ति न वेति भाष्य स्याप्ययमेवार्थः । अस्मिन् पक्ष इति । प्रत्यक्षागोचरत्वंपक्षाभ्युपगम इत्यर्थः । ततश्चानुमेयत्वमत्रेण कथभपरोक्षत्वविरोधः, वह्नयादाबुभयदर्शनादिति शङ्का परास्त। वेदितव्या । घटाच्छाद्कमज्ञानं हेि घटझाले न विरुध्यत इति । अयमर्थः-घटज्ञाने सति घटाच्छादकम्ज्ञानं न हि विरुध्यते : घटज्ञानविषयज्ञानधर्मिज्ञानभ्यां च न विरुध्यते, भावाभावरूपत्वाभावात्; उभधोरपि भावरूपत्वादित्यर्थः । भाष्यस्वारस्यात्,

  • भावरूपज्ञानप्रत्यक्षवादे तु सत्यप्याश्रयप्रतियोगिज्ञाने ज्ञानाभात्रस्येव भवान्तरस्यापि

नानुपपत्तिर्नियन्तुं शक्यते ? इति पुरोवदिपञ्चपादिकविवरणग्रन्थानुसाराम्रोक्त एवार्थः । यथाश्रुतार्थग्रहणे साक्षाद्धविषयज्ञानभ्यैवं * घटं न जानामि 'इति ज्ञान विषयत्वप्रसङ्गेन ज्ञानसिद्धिप्रसङ्गात् । वस्तुयाथात्म्यज्ञाननिवत्यमिति । उभयोर्भावः रूपत्वेऽपि तेजस्तिमिस्योरिव विरोधः सिद्ध इति भावः । भाष्ये – साष्टिचैतन्यं न बस्तुयाथात्म्यविषयमिति । सोंक्षिचैतन्यं वस्तुयाथाम्यविषयकप्रमाणज्ञानं न भवतीत्यर्थः; माणज्ञानस्यैवाज्ञाननिवर्तकत्वात् । अन्यथेत्यस्याज्ञानविषयमिति संनिहितविषयत्वसंभवेऽपि विप्रकृष्टवस्तुयाथात्म्यविषय त्वानभ्युपगमप्रतिपादकत्वभयुक्तमित्यस्वरसादाह – अज्ञानविषयत्वाभावे वेति । न हि रजतज्ञानेनेति । साधकस्य बाधकत्वायोगादित्यर्थः। भाष्ये--ननु चेदं भावरूपमध्यज्ञानमिति । अत्र चोदयन्ति -“नन्वज्ञानस्य व्यावर्तको विषयः. कथं साक्षिचैतन्येनावभास्यते ? प्रमाणयत्तत्वाद्विषयसिद्धेरिति । उच्यते---सर्वे वस्तु ज्ञातयाऽज्ञाततया वा सचैितन्यस्य विषय एव ; तत्र ज्ञातः तया विषयः प्रमाणव्यवधानमपेक्षते, अन्यस्तु 'सामान्याकरेण विशेषाकारेण वा अज्ञानव्यावर्तकतथा दा भांस्यते ? इति पञ्चषादिकविवरणग्रन्थानुवादरूपमिदं