पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिबेिरचेिता गोचर इति । यष्टपमाणमात्रगोचर इत्यर्थः । मात्रपदेन प्रत्यक्षोचरंवंििषध्यते । प्रत्यक्षागोचर इत्यर्थः । अत एोत्तर ' अभावश्य प्रत्यक्षगोचरत्वाभ्युपगमेऽपि इत्युक्तम् । भवत्वयमपि षष्ठप्रमाणविषय इति । अत्र चोदयन्ति – “ अयं .तु अहं सुखी ' इतिवदपरोक्ष ? इत्यत्र भाध्ये ' अयम्' इत्यनेनानुभवः परामृश्यते न तु विषय : ; । अहं सुखी ' इतिवदितीतिकरणावमृष्टप्रत्यक्षानुभवस्य दृष्टान्ती करणात् । न हि 'सुखादिवत्' इत्युक्तम् । किंचाभावः प्रत्यक्षायोग्धः । इदं तु ज्ञानं प्रत्यक्षरूपम् । अतो नानयोपियावेषयिभावः संभवतीत्यस्यार्थस्यैव प्रतिपादः यितुमुचितत्वात् * अयम्' इति ज्ञानपरामर्श एवोचितः, न विषयपरामर्शः । ततश्च भवत्क्यमप्यनुभवः षष्ठमाणजन्यः' इत्येवावतारिकया भवितव्यमिति- तन्न, उपायस्योपायान्तरादूषकत्वात् । परोक्षप्रमाणविषयः प्रागभाव इति । परोक्षेकविषय इत्यर्थः । ततश्च परोक्षप्रमाणविषयस्य वह्वयादेरपरोक्षत्वस्यापि दर्शनात् नेदं युक्तमिति शङ्काया नावकाशः । भावग्राहकप्रमाणेनेति । प्रत्यक्षस्य संनिकृष्टार्थमात्रग्राहितया संयोगादिलक्षणस्य पञ्चविधस्य संनिकर्षस्य भावेष्वेव संभवेन भावग्रहणैकशीलस्यापि प्रत्यक्षस्य विशेषणतालक्षणसंनिकर्षान्तरपरिकल्पनेनाभावग्राहकत्वाभ्युपगमेऽपीति भावः । ततश्च-भाष्ये 'प्रत्यक्षत्वाभ्युपगमेऽपि ? इति स्पष्टमथे प्रतीयमाने, 'भावग्राहक प्रमाणेनाभावस्य वेद्यत्वाभ्युपगमेऽपि इत्यक्तारिकायां न संामञ्जस्यम् ; किं च भाव ग्रहिणां शब्दानुमानादीनामभावप्राहित्वस्य सर्वसिद्धत्वाचेतेि चोद्यस्य नावकाशः । ग्राहकाभावान्न तदभावप्रतीतिरित्यर्थ इतेि । प्रहणकारणीभूताधिकरण प्रतियोगिज्ञानाभावादभावज्ञानं नोत्पतुर्माईतीत्यर्थः; न तु ग्राहकस्याभावज्ञानस्येत्यर्थ उत्तरत्र 'एतदुक्तं भवति । इतेि भाष्ये तथैव विवरणदर्शनात् । न च ग्राहकशब्दस्य. प्रहणजनकप्रतियोग्यधिकरणज्ञानपरत्वे अभावविषयकज्ञानस्य प्राहकत्वादित्यव्यवहित शङ्काया अनुस्थानमिति वाच्यम्, आशयानभिज्ञस्य तथा चोद्यसंभवात् । केचितु ग्राहकाभावात् = अभावग्राहकस्य ज्ञानस्याभावात्; न तदभावप्रतीतिः तदभावोछेख इत्यर्थः, “एतदुक्तं भवति । इत्येउस्य कथंचिदुपपादकत्वात्रत्वेनाप्युप पतेरिति वदन्ति । ज्ञानप्रागभावस्वंग्रह्मत्व इतेि । अत्र प्रागित्येतदविवक्षितम्