पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावश्यकाशिक (प्रमाणानुपपतिः) २२९ गाहित्वेनः द्विचरणरूपत्वमिति भावः । कार्यरूपाज्ञानव्याधृतिरिति । “श्रूयतां चाप्यविद्यायाः स्वरूपं कुरु()नन्दन । अनामन्यात्मबुद्धिर्या ?' इत्यादानात्मन्यात्म बुद्धेरप्यविद्याऽज्ञानादिशब्दपयोगविषयतया तावृतिरित्यर्थः । वक्ष्यति चानस्मिल्यात्म बुद्धेरप्यज्ञानशब्दवाच्यत्वम् । सौधुझिकमज्ञानमिति ! सुधुप्यनुवृत्तमज्ञानमित्यर्थः । आहंखुद्धिरूपस्य कार्यज्ञानस्य सुषुष्यनुवृत्तत्वाभावातू तथावृत्तिरित्यर्थः । ननु 'मामन्यं च न जानामि ) इत्यनुभवः सुषुप्त्यनुवृत्ताज्ञाने न प्रमाणीकर्तु येोग्यः, सुषुप्तावहमर्थस्य तदन्यस्य वा विषयस्योलेखासंभवादित्याशङ्कयाह-जागरितावस्थायामिति। सविकल्पक प्रत्यक्षरूपसक्षिण अहमर्थतदन्यरूपविषयावच्छिन्नाज्ञानानुभवो ग्रद्दशायाम् , तस्यैवाज्ञानस्य निर्विषयतयानुभवः सुषुप्ताबित्यर्थः । ततश्च कारणाज्ञानस्य जामद्दशायां तत्वशुद्धिकारमते सर्वात्मना अप्रतीतिरिति न मन्तव्यम्, साक्षिभास्यस्याज्ञानस्या ज्ञातत्वासंभवात् । न चाज्ञानस्य निर्विषयत्वावस्था न संभवति ; निर्विषयत्वेना ज्ञानानुभवश्च न संभवतीति वाच्यम् = सुषुसौ प्रत्यगात्मत्रविषयतयाऽज्ञानस्य भाने दोषाभावात् । ननु – जाग्रद्दशायां साक्षिण * धटं न जानामि । इति विषयो छेखित्वक्तू सुषुप्तावपि बिषयोछेखित्वे को दोषः ? न हि साक्ष्युलेखानुलेखयो जर्जागरणजागरणे उपयुज्येते ; अत एव - “ सर्वे बस्तु ज्ञाततया अज्ञाततया बा साक्षिचैतन्यस्य सर्वदा विषय एव ? इत्युक्तं विवरण इति चेत्, --- सत्यम् ; जाग्रद्शायां “घटं जानामि, पटं जानामि ? इति विशिष्य वेिषयविशेषोछेखवत् सुषुप्तिदशायां विषयाणां विशिष्योछेखादर्शनेन तदनुरोधेन कस्यचिद्धेतोः कल्पनी यत्वात् । न केवलं तत्त्वशुद्धिकारादिभिरधुनिकैरुक्तम् । संप्रदायोऽपि तथैवेत्याह जागरितावस्थायामेवेति । अज्ञानानुभवोऽयमिति | * अहमज्ञः; मामन्यं च न जानामि ? इत्ययज्ञानानुभव इत्यर्थः । ननु ' न जानामि ? इत्यत्राज्ञानमात्रमनुभूयते न तस्य कारणत्वमपि । तत् कथं कारणाज्ञानविषयं प्रत्यक्षमित्युच्यत इत्याशङ्कयाह न जानामीत्याच्छादकतयेति । कार्थाज्ञानस्याच्छादकत्वाभावदिति भावः । भाष्ये-कारणाज्ञानविषयै प्रत्यक्ष तावदिति । * अहमज्ञः, मामन्यं च न जानामि ) इत्यपरोक्षावभासः कारणाज्ञानविषयं प्रत्यक्षमिति योजना । ततश्च प्रत्यक्ष भपरोक्षावभास इत्यनयोने पैौनरुक्त्यमिति शेषम् । भाष्ये स हि षष्ठप्रमाण