पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२८ श्रीरङ्गरामानुजमुनेिचेिरचेिता भार्थिकस्य वस्तुनः पारमार्थिकवस्तुसामग्रीनिरपेक्षत्वेऽप्यपारमार्थिकवस्तुसामीसापेक्ष त्वमस्त्येव । स्वल्पास्येन विपुलमासादनिगरणस्य परमार्थिकमासादनिगरणहेतु निरपेक्षत्वेऽप्यपारमार्थिकप्रासादनेिग३णहेतुभूतैन्द्रजालिकमन्त्रौषधादिसामग्रोसापेक्षत्व दर्शनादिति भावः । अधिष्ठानाध्यस्तोरैक्यप्रसङ्ग इति । स्वपरनिर्वाहकत्वषक्षे तस्मिन्नेवाधिष्ठाने तदेवाध्यस्तमित्यागतम् । ततश्चाधिष्ठानत्वाध्यस्तत्वयोः परस्परविरोधा भवात् सर्वमपि स्वस्वरूप एव कल्पितमिति बतुं शक्यतया अध्यताद्विन्नमधिष्ठानन्तरं नापेक्षणीयं स्यादिति भावः । (अनेिर्वचनीयत्वानुपपत्तिः) व्याप्तिविरोधादिति चेदिति । सत्वस्यासत्वाभावव्याप्तत्वादिति भावः । सदसदात्मकत्वं दृष्टसिति । भ्रान्तिबाधाभ्यां सदसदात्मकतयाँ प्रतिपन्नत्वात् तदेव स्वीकर्तुमुचितमित्यर्थः । अर्थस्थितौ सत्त्वमसत्वं वा स्यादिति। वस्तुस्थितौ पर्या लोच्यमानायां सत्यासत्वयोरन्यतरदेव स्यादित्यर्थः । सदसद्विलक्षणत्वै दृष्टमिति चेदिति । सन्मात्ररूपत्वेऽप्युभयरूपत्वाभावादिति भावः । अन्यथाख्यानादिभि रिति । आदिपदेनास्यतियथार्थख्याती विवक्षिते । सत्त्वे सतीति । सत्वे सत्येवेत्यर्थः । भेदाग्रहेण ख्यातिबाधोपपत्तिरिति । न च भेदाग्रहस्य ख्यात्युप पादकत्वेऽपि कथं बाधोपपादकत्वमिति वाच्यम्, 'वर्षकृतं दुर्भिक्षम्' इतिवदुपपतेः। अथवा भेदाश्रहेणेत्युपलक्षणम्-भेदाश्रहेण भेदग्रहेण च ख्यातिबाधोपपतिरित्यर्थः । तमर्थमुपपादयति-सत एवेत्यादिना । पुरोबत्र्यगृहीतासंसर्गभेदप्रतियोगितयानु पस्थितस्योपस्थितिः ख्यातिः । तत्र गृहीतभेदप्रतियोगितया तस्य वस्तुनः प्रतीतिबध इति वदन्ति । (प्रमाणानुपपत्तिः) तद्विवरणरूपतामेवोपपादयति--अहमज्ञ इति । अज्ञानस्लरूपकीर्तनमिति । विषयावरणरूपकार्यविनिर्मुक्ताज्ञानस्वरूपकीर्तनम्-अज्ञ इति ; मामन्यं चेत्यत्र तु विषयावरणकार्यविशिष्टज्ञानकीर्तनमेित्यर्थः । अत एवं तिवरणव्याख्याने तत्त्वदीपने--

  • अहमज्ञ इत्यज्ञानस्य साश्रयत्वम्; मामन्यं च न जालामीति सविषयत्वं प्रतीयते !

इत्युक्तम् । * अहमज्ञः? इति प्रतीत एवाज्ञानस्वरूपे सविषयत्वरूपधर्मान्तरवैशिष्टयाव