पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचेितः करण्यं व्यर्थमित्यर्थः । सिद्धान्तेऽहमदिशब्दानां प्रयोजनमाह - अहंशब्दस्या पेक्षिकेति । प्रत्यक्त्वमात्रस्य प्रवृत्तिनिमिवतत्वे सर्वेषां स्वात्मनां स्वात्मानं अति प्रत्यक्त्वात् परामात्मन्यप्यहंशब्दप्रयोगप्रसङ्ग इत्याशङ्कय प्रत्यक्त्वस्य प्रवृत्तिनिमित्तत्वेऽपि स्वतन्त्रशब्दोच्चारयितृत्वमुपाधिरित्यभिप्रेत्याह - अपेक्षिकेति । प्रकृतेति । द्वितीयांशत्रयोदशाध्यायमारभ्यप्रस्तुतवादित्यर्थः । अस्य लोकस्यार्थः-अहमिप ज्ञानैकाकारः स आत्मा, त्वमपि तादृश, सर्वमेतदात्मस्वरूपमपि ज्ञानैकाकारम् । अत आत्मसु देवाद्याकारेण भेदभेोहं परित्यजेति । प्रथमं किमात्मस्वरूपैक्यपरमिति । मुक्तपैरैक्यं पश्चाद् दूषयिष्यत इति प्रथमशब्दाभिप्रायः । द्वा सुपर्णाविति । सुपर्णसाम्यात् सुपणी । सयुजौ= सर्वेदः सह वर्तमानौ । सत्त्वं ह्यन्तःकरणमिति छेदः । येनेतीत्थंभावे तृतीयेति । उक्तयुक्तिवलात् दुर्बलाप्युपपदविभक्तिः सोढव्येति भावः । द्वावपि कर्तृविशेषा विति ! “ स्वतन्त्रः कर्ता ”, “ललायोजको हेतुश्च ? इति द्वयोरपि कर्तृसंज्ञ विधानदिति भावः । चशब्दनोक्तमिति । तथाच श्रुतिरित्यत्रेति भावः । (मुक्तावप्यनैक्यम्) निराकरणपरत्वाच प्रकरणस्येति ।

  • धर्माय त्यज्यते किंनु परमार्थो धनं यदि ।

यश्च क्रियते यस्मात् काममाप्युपलक्षणः ॥ (२-१४-१७) पुत्रश्चेत् परमार्थः स्यात् सोऽप्यन्यस्य नरेश्वर । परार्थभूतः सोऽन्यस्य परमार्थो हि तत्पिता । एवं न परमार्थोऽस्ति जगत्य नराधिप । परमार्थो हि कार्याणि कारणानामशेषतः । राज्यादिप्राप्तिरोक्ता परमार्थतया यदि । परमार्था भवन्त्यत्र न भवन्ति च वै ततः ।।