पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितः स्यापि शास्यजन्यज्ञानेन बाधः किं न स्यादिति शङ्काम् , साट्यदिल्पभ्रमहेत्वभावात् कथं देहात्गभ्रम इति शङ्कां च परिहरन् देशात्मभ्रमनुपपादयति -देहात्मश्रश्च संसर्गकृत इति । यथा । जलमुष्णम्' ति प्रत्यक्ष तेजोद्रयसंपर्कात् दोषसाहित्यात् शङ्गितदोषं सत् जलस्य शैत्यश्वभावस्वग्राहकशात्रेण बाध्यते इत्यर्थः (भावः) । न चैवं ब्रह्मपश्योरप्युपादानोपादेयभावेन परस्पस्संसृष्टया ब्रह्मगतसत्वप्रतीतिः प्रपत्रे किं न स्यादिति वाच्यम्, ऋङ्गसंसर्गम्यैव दोश्त्वे अद्वैशास्त्रमसदेव अप्रमाणमेव अव्यानहारिकमेव सत्वेन प्रमाणत्वेन व्यावहारिकत्वेन च गृह्य इति शङ्कितदोष तया तदपि न ऋधकं स्यान् । किंच प्रपञ्चस्य सत्वाभावे ब्रह्मसंसर्गस्याप्यसंभवेन तस्य दोषत्वाभावादित्यन्यत्र विस्तरः । अनुभवसाधनयोगयोग्येति भाप्यम् । अनुभवसाधने ध्यानयोगे योग्यानि परिशुद्धनि मनांसि येषां ते तथोक्ताः । योग्य तायां च परिशुद्धिहेतुः । परिशुद्धौ च कर्मयोगो हेतुरित्येवंपरतया व्याख्या योगयोग्येत्यल तृतीयातत्पुरुषेो विवक्षितः । थोगशध्दश्च कर्मयोगपरः । योग्यतापरि शुद्धयोश्च भेदाभावात् पूर्वक्तयेोहेनुहेतुमद्भावश्च न विवक्षित । योग्यपरिशुद्धेति व्यपदेशश्च 'घट्जनयोग्यदृढदण्डः' इतिबटुपपन्न इत्यभिप्रयन्नाह-योगेन योग्यता परिशुद्धिरिति वार्थ इति । अखिलजगच्छब्देनाचिठूपं जगद्विवक्षितमिति । अत्र केचित्-पूर्वलोक इव चिट्रपजगद्विवक्षायामपि न दोष । चिटूपं जगत् । ज्ञानात्मकं पश्यन्तीत्युक्तऽपि दोषाभावात् ! यद्वा पूर्वश्रेोक्रेऽपि जगच्छब्दोऽचित्र एव । ततश्चार्थस्वरूपं जगत् देवमनुष्यादिभ्यं ज्ञानस्वरूपात्मस्वल्पं पश्यन्तः देहात्मभ्रमवन्त इत्यर्थः । ततश्च जगच्छब्दद्वयस्यापि न वैरूप्यमित्यपि वदन्ति । प्रथमश्लोकसंक्षिप्तमित्यादि । अयमर्थः--यथमश्चोके संक्षिप्त तच्छलोकमात्रविधय तयोक्तमनुक्तदूषणैः सह पौनरुक्यार्थविरोधशास्रतात्पर्यविरोधैः सह विस्तरेण सर्व ोकसाधारणतया आहेत्यर्थः । सर्वश्लेोकसाधारणमित्येततु त्रस्तरशब्दाववरणम् । न तु संक्षेपविस्तरशब्दयोर्दूषणस्वरूपसंक्षेविस्तत्परत्वम् । दूषणस्वरूपं हि प्रथमश्ॐके त्वमित्यादिपदानां लक्षणा, महावराहस्य स्तुतिप्रकरणविरोध इति विस्तरेणोक्तम् उत्तरत्र तु पदानां लक्षणा, प्रकरणविरोध इति संक्षेपेण । अतो यथोक्त एवार्थः । अवान्तरप्रकरणेति । अवान्तरप्रकरणस्योपक्रमोपसंहारादिविरोध इत्यर्थः ।