पृष्ठम्:भामहालङ्कारः.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भामहालङ्कारेक्रमागतं श्रुतिसुखं शब्दमर्यमुदीरयेत् । । अतिशेते ह्यलङ्कारमन्यं व्यञ्जनचारुता ॥ २८ ॥ सिडो ययौपसंख्यानादिष्टया यश्चोपपादितः । तमाद्रियेत प्रायेण न तु योगविभागजम् ॥ २९ ॥ इयं चंन्द्रमुखी कन्या प्रकृत्यैव मनोहरा ।। अस्थां सुवर्णलङ्कारः पुंष्णाति नितरां श्रियम् ॥३०॥ वृद्धिपक्षं प्रयुञ्जीत सक्रमे ऽपि मृजेर्यथा । मार्जन्त्यधररागं ते पतन्तो बाष्पबिन्दवः ॥ ३१ ॥ सरूपशेष तु. पुमान् स्त्रिया यत्र च शिष्यते ।। यथाह वरुणाविन्द्रौ भवौ शवै मृडाविति ॥ ३२ ॥ यथा, पटयतीत्यादि णिच् प्रातिपदिकात्ततः ।। णाविष्ठवदितोष्टया च तथा ऋशयतीत्यपि ॥ ३३ ॥ । प्रयुञ्जीताऽव्ययीभावमदन्तं नाप्यपञ्चमि । । तृतीयासप्तमीपक्षे नालुग्विषयमानयेत ॥ ३४ ॥ तिष्ठद्गुप्रभृतौ वायौ नक्तंदिवसगोचरौ ।। यथा विहानधीते ऽसौ तिष्ठद्गु च बदगु च ॥३५॥ शिष्ठप्रयोगमात्रेण न्यासकारमतेन वा। तृच समस्तषष्ठकं ने कथञ्चिदुदाहरेत् ॥ ३६ ॥