पृष्ठम्:भामहालङ्कारः.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षष्ठः परिच्छेदः।

| ->> - . सूत्राम्भस पदावर्ते पारायणरसातलम् ।। धातूणादिगणग्राहे ध्यानग्रहबृहत्प्लवम् ॥ १ ॥ धीरैरालोकितप्रान्तममेधोभिरसूयितम् ।। सदोपभुक्तं सवाभिरन्यविद्याकरेणुभिः ॥ २ ॥ नापारयित्वा दुर्गाधममुं व्याकरणार्णवम् ।। शब्दरत्नं स्वयङ्गम(म्य?) मलङ्कर्तुमयं जनः ॥ ३ ॥ तस्य चाऽधिगमे यत्नः कार्यः काव्यं विधित्सता । परप्रत्ययते यत्तु क्रियते तेन की रतिः ॥ ४ ॥ नाऽन्यप्रत्ययशब्दा वाग---मुदे सताम् । परेण धृतमुक्तेव सरसा कुसुमावली ॥ ५ ॥ मुख्यस्तावयं न्यायो यत स्वशक्त्या प्रवर्तते । अन्य सारस्वता नाम सन्त्यन्योक्तानुवादिनः ॥ ६ ॥ प्रतीतिरर्थेषु चैतस्तं शब्दं ब्रुवतेऽपरे ।। धूमभासौपि प्राप्ता शब्दताऽन्यानुमां प्रति ॥ ७ ॥ नन्वकारादिवर्णानां समुदायोऽभिधेयवान् । अर्थप्रतीतये गीतः शब्दं इत्यभिधीयते ॥ ८ ॥

१३ स्त-१। १ अन्य