पृष्ठम्:भामहालङ्कारः.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः परिच्छेदः । नमोऽस्तु तेभ्यो विडयो येऽभिप्रायं कवेरिमम् । शास्त्रलोकात्रपास्यैव नयन्ति नयवेदिनः ॥४५॥ सचेतसे वनेभस्य चर्मणा निर्मितस्य च ।। विशेष वेद बालोऽपि कष्टं किं नु कथं नु तत् ॥ ६॥ आगमो धर्मशास्त्राणि लोकसीमा च तत्कृता । तहिरोधि तदाचारंव्यतिक्रमणतो यथा ॥४७॥ . भूभृतां पीतसोमानां न्याय्ये वर्मनि तिष्ठताम् । अलङ्करिष्णुना वंशं गुरौ सति जिगीषुणा ॥४८॥ अभार्योंढेन संस्कारमन्तरेण डिजन्मना ।.. नरवाहनदत्तेन वेश्यावान् निशि पडितः ॥४९॥ ने दूषणायाऽयमुदाहृतो विधि ने चाभिमानेन किमु अतीयते । कृतात्मनां तत्वदृशां च मादृशो । जनोऽभिसन्धि के इवाऽवभेत्स्यते ।। १० ।। * इति श्रीभामहालङ्कारे चतुर्थः परिच्छेदः ।अस्य अपरं नाम काव्यालङ्कारः इति।