पृष्ठम्:भामहालङ्कारः.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, भामहालङ्कारैयथासङ्ख्यमथोत्प्रेक्षामलङ्कारद्वयं विदुः । सङ्ख्यानमिति मेधाविनोत्प्रेक्षाभिहिता क्वचित् ॥८८॥ भूयसामुपदिष्टानामनामसधर्मणाम् । कमशो योऽनुनिर्देशी यथासङ्ख्यं तदुच्यते ॥८९॥ पद्येन्दुभृङ्गमातङ्गपुस्कोकिलकलापिनः ।। वक्त्रकान्तीक्षणगतिवाणीबालैरत्वया जिताः ॥९,०॥ अविवक्षितसामान्य किचिंचोपमया सह । । अतद्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता ॥ ११ ॥ किंशुकव्यपदेशेन तरूमारुह्य सर्वतः । । दुग्धोऽदग्धमरण्यान्याः पश्यतीव विभावसुः ॥१२॥ स्वभावोक्तिरलङ्कार इति केचित प्रचक्षते ।। अर्थस्य तदवस्थत्वं स्वभावोऽभिहितो यथा ॥९,३॥ आक्रशन्नाह्वयन्नन्यानाधावन्मण्डलैनुदन् । गा वारयति दण्डेन डिम्भः शस्यावतारणीः ॥९४।। समासेनोदितमिदं धीखदायैव विस्तरः ।।

असंगृहीतमप्यन्यदभ्यूह्यमनया दिशा ॥ ९५ ॥ | स्वयंकृतैरैवनिदर्शनैरियं मया प्रक्लुप्ता खलु वागलङ्कृतिः । अतः परं चारुरनेकधापरी गिरामलङ्कारविधिविधास्यते॥१६॥

इति श्रीभामहालङ्कारे द्वितीया परिच्छेदः । ।