पृष्ठम्:भामहालङ्कारः.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| भामहालङ्कारः ।। अहं त्वां यदि नेक्षेय क्षणमप्युत्सुका ततः ।, इयदेवास्त्वतोऽन्येन किमुक्तेनाप्रियेण तु ॥ ६९ ॥ स्वविक्रमान्तभुवश्चत्रं यन्न तवोडतिः । को वा सेतुरलं सिन्धोविकारकरणे प्रति ॥ ७० ॥ उपन्यसनमन्यस्य यदर्थस्योदितादृते ।। ज्ञेयः सोऽर्थान्तरन्यासः पूर्वार्थानुगतो यथा ॥७१।। परानीकानि भोमानि विविक्षोर्न तव व्यथा । साधु वाऽसाधु वाऽऽगामि पुंसामात्मैव शंसति ॥७२॥ हिशब्देनापि हेत्वर्थप्रथनादुक्तसिहये । अयमथान्तरन्यासः सुतरां व्यज्यते यथा ॥ ७३॥ वहन्ति गिरयो मेघानभ्युपेतान् गुरूनपि । गरीयानेव हि गुरून् बिभर्ति प्रणयागतान् ।।७४॥ उपमानवताऽर्थस्य यहिशेषानदर्शनम् ।। व्यतिरेक तमिच्छन्ति विशेषापादनाद्यथा ॥ ७५ ॥ । सितासिते पंक्ष्मवती नेत्रे ते ताम्रराजिनी । एकान्तशुभ्रश्यामे तु पुण्डरीकासितत्पले ॥ ७६ ॥ क्रियायाः प्रतिषेधे या तत्फलस्य विभावना ।। ज्ञेया विभावनैवासौ समाधौ सुलभे सति ॥ ७७ ॥ अपीतमत्ता, शिखिनो दिशोऽनुत्कण्ठिताकुलाः ।

१ त्वा-री ।