पृष्ठम्:भामहालङ्कारः.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साधु साधारणत्वादिगुणोऽत्र व्यातिरिच्यते । स साम्यमापादयति. विरोधेऽपि तयोर्यथा ॥ ३५ ॥ कियन्तः सन्ति गुणिनः साधुसाधारणश्रियः । स्वादुपाकफ़लानम्राः कियन्तो वाऽध्वशाखिनः॥३६॥ यदुक्तं त्रिप्रकारत्वं तस्याः कैश्चिन्महात्मभिः ।। निन्दाप्रशंसाचिख्यासाभेदात्रभिधीयते ॥ ३७॥ सामान्यगुणनिर्देशात त्रयमप्युदितं ननु । मालपमादिः सर्वोऽपि न ज्यायान् विस्तरो मुधा॥३८॥ हीनतासम्भवो लिङ्गवचाभेदो विपर्ययः ।। उपमानाधिकत्वं च तैनासदृशतापि च ॥ ३९ ॥.. त एत उपमादोषाः सप्त मेधाविनोदिताः। सोदाहरणलक्ष्माणो वर्ण्यन्तेऽत्र च ते पृथक्॥ ४० ॥ • स मारुताकम्पितपीतवासा

. । विभ्रत सलीले शशिभासमब्जम् । यदुप्रवारः प्रगृहीतशाङ्ग

. सेन्द्रायुधो मेघ इवबिभासे ॥ ४१ ॥ शक्तचापग्रहादत दर्शितं किल कार्मुकम् । वासश्शङ्खानुपादानाडीनमित्यभिधीयते ॥ ४२ ॥ सर्वे सर्वेण सारूप्यं नास्ति भावस्य कस्यचित् । यथोपपत्ति कृतिभिरुपमासु प्रयुज्यते ॥ ४३ ॥