पृष्ठम्:भामती.djvu/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा.२.२२]
[४५५]

नैति । एवं क्षणिकत्वमभ्युपेत्योत्पादाद्वा तथागतानामनु त्पादाद स्थिनैवैषा धर्माणां धर्मना धर्मस्थितितेति नि त्यतामुपेतेत्यादि(१बन्नेतव्यमिति ॥

नैकस्मिन्नसंभवात ॥ ३३ ॥

निरस्तो भक्तकच्छानां सुगतान समयो, विवसनानां समय इदानों निरस्यते । तत्समयमाच संक्षेपविस्तराभ्याम् । ‘सप्त चैषां पदार्थाः संमता” इति । तत्र संक्षेपमाह । “संक्षेपतस्तु द्वावेव पदार्थाविति । बोधात्मको जोवो । जडवर्गस्वजीव इति यथायोगं तयोर्जीवाजीवयोरिममपरं प्रपच्छमाचक्षते । तमाच । ‘पध्वस्तिकाया नामेति । “सर्वेषामप्येषामवान्तरप्रभेदानि”ति । जीवास्तिकायत्रिधा । बद्धो मुक्तो नित्यसिद्स्येति । पुङ्गनास्तिकायः षोढा। ष्ट थिन्यादीनि चत्वारि भूतानि स्थावरं जङ्गमं चेति । ध मक्षिकायः प्रवृक्यनुमेयो ऽधर्मास्तिकायः स्थित्यनुमेयः । आकाशास्तिकायो द्वेधा । लोकाकाशो ऽलोकाकाशश्च । तञ्चोपर्युपरि स्थितानां लोकानामग्न्तवर्ती लोकाकाशस्तेषा मुपरि मोक्षस्थानमलोकाकाशः । तत्र हि न लोकाः स न्ति । तदेवं जीवाजोवंपदार्थं पञ्चधा प्रपञ्चिक्रे । आ स्वसंवरनिर्जरास्त्रयः पदार्थाः प्रवृत्तिलक्षणाः प्रपद्यन्ते । द्विधा प्रवृत्तिः सम्यमिथ्या च । तत्र मिथ्या प्रवृत्तिरास्र वः । सम्यक्प्रवृत्ती तु संवरनिर्जरौ । आस्रावयति पुरुषं


(१) मभ्युपैतत्पाद-पा० ३ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४६०&oldid=141242" इत्यस्माद् प्रतिप्राप्तम्