पृष्ठम्:भामती.djvu/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[म.२ पा-२.२८]
[४४२]

त्वप्रादुर्भावानभ्युपगमाच्च न कालतोपि विप्रकर्षसंभवः । तस्मादसति बाह्यर्थे प्रत्ययवैचित्यानुपपत्तेरस्यानुमानिको बा ख़ोर्थ इति सत्रन्तिकाः प्रतिपेदिरे, तान्निराकरोति । "वासनावैचित्र्यादित्याच” विज्ञानवादी । इदमत्राकृतम् । खसंतानमात्रप्रभवन्वेपि प्रत्ययकादाचित्कत्वोपपत्तै संदिग्ध विपक्षव्यावृत्तिकत्वेन हेतुरनैकान्तिकः । तथा द्धि। बाद्यानि मित्तकत्वेपि कथं कदा चिलसंवेदनं कदा चित्पीतसं वेदनम्, बाह्रनीलपीतसंनिधानासंनिधानाभ्यामिति चेत् । अथ पीतसंनिधानेपि किमिति नीलज्ञानं न भवति पी तज्ञानं भवति, तत्र तस्य सामर्थादसामथ्र्याच्चेतरस्मिन्निति चेत् । कुतः पुनरयं सामध्यसामर्यभेदः । हेतुभेदादिति चेत् । एवं तर्हि क्षणानामपि स्खकारणभेदनिबन्धनः श क्तिभेदो भविष्यति । संतानिनो चि क्षणाः कार्यभेदचेतव स्ने च प्रतिकार्यं भिद्यन्ते च । संतानो नाम कश्चिदेकं उत्पादक क्षणानां यदभेदात् झण न भिद्येरन् । ननूक्त न झणभेदाभेदाभ्यां शक्तिभेदाभेदै। भिन्ननामपि क्षणाना मेकसामथ्र्योपलब्धेः । अन्यथैक एव क्षणे नीलज्ञानजन नसमर्थ इति न भूयो नोलज्ञानानि जायेरन् । तत्सम र्थस्यातीतत्वात् शणान्तराणां चासामथ्र्योत् । तस्मात् शण भेदेपि न सामथ्र्यभेदः, संतानभेदे तु सामथ्र्यं भिद्य तइति । तन्न । यदि भिन्नानां संतानानां नैकं सामथ्र्यं, दन्त तर्षि मलसंतानानामपि मिथो भिन्नान नैकमस्ति। नीलाकाराधानसामथ्र्यमिति संनिधानेपि नीलसंतानान्तरस्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४४८&oldid=141224" इत्यस्माद् प्रतिप्राप्तम्