पृष्ठम्:भामती.djvu/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-२३२४]
[भामती]
[४३०]

भत्वा गन्धादिवदसाधारणेन्द्रियग्रथो यद्दव्यमनुमापयति तदाकाशं पञ्चमं ऋतं न वस्विति । "अपि चावरण भावमाकाशमिच्छत” इति । निषेध्यनिषेधाधिकरणनिरूप णाधीननिरूपण निषेधे नासत्यधिकरणनिरूपणे शक्य निरूपयितुम् । तच्च (१)वरणाभावाधिकरणमाकाशं वस्वि ति । अनिरोद्धितार्थमन्यम् ॥

अनुस्मृतेश्च ॥ २५ ॥

विभजते । ‘अपि च वैनाशिकः सर्वस्य वस्तुन” इति । यत् सत्यप्येतस्मिंनृपसत्रेरन्थत्वेपि समानायां संनतै कार्यकारणभावान् कृतिरुपपद्यतइति मन्यमानो न परि | तुष्यति तं प्रति । प्रत्यभिज्ञासमाशत२)प्रत्यक्ष विरोधमाद । "अपि च दशनचरणयोः कंठेरी”ति । ततो ऽहमद्राक्षा दिति प्रतीया, अखं चराम्यन्यच्चद्राक्षादित्यर्थः । प्रत्यभि ज्ञाप्रत्यक्षविरोधप्रपञ्चस्तूत्तरः । "आ जन्मन” “आ • चो तमादुक्स’, आमरणादित्यर्थः । न च सादृश्यनिव न्धनं प्रत्यभिज्ञानं, पूर्वपरक्षणदर्शिन एकस्याभावे तदनुप पत्तेः । शङ्कते । "तेनेदं सदृशमिति । अयमर्थं विकल्प प्रत्ययोयम् । विकल्पश्च खकारं बाह्यतया ऽध्यवस्यति, न तु तत्वतः पूर्वापरौ क्षणं तयोः सादृश्यं वा गृहाति । तत्कथमेकस्यानेकदर्शिनः स्थिरस्य प्रसङ्ग इति निराक


(१) तथा चा-पा० ३ ।
(२) समाख्यात-पा० १ । ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४३५&oldid=141211" इत्यस्माद् प्रतिप्राप्तम्