पृष्ठम्:भामती.djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२पा-२.१]
[४९९]

र्नयामीति । जरामरणदीनामपि नैवं भवति वयं जात्या दिभिर्निवनिता इति । अथ च सल्लविद्यादिषु स्खयमचेस नेषु चेतनान्तरानधिष्ठिनेष्वपि संस्कारादीनामुत्पत्तिः बजा दिष्विव सल्फचेतनेषु चेतनान्तरानधिष्ठितेष्वप्यडुरादीनाम् । इदं प्रतीत्य प्राप्येदमुत्पद्यतइत्येतावन्मात्रस्य दृष्टत्वाच्चेतना धिष्ठानस्यानुपलब्धेः । सेयमाध्यात्मिकस्य प्रतीत्य समुत्पा दस्य वपनिबन्धः । अय प्रत्ययोपनिबन्धः पृथिव्यप्तेजोवा य्वाकाशविज्ञानधातूनां समवायाङ्गवति कायः । तत्र का यस्य पृथिवी धातुः काठिन्यं निर्वर्तयति(Q। अब्धातुः स्वेदयति कायं, तेजोधातुः कायस्याशितपीतेः परिषाचयति । वायुधातुः कायस्य श्वासादि२) करोति । आकाशधातुः कायस्यान्तः सुषिरभावं करोति । यस्तु नामरूपाडुरमभि निर्वर्तयति पञ्चविज्ञानकार्यसंयुक्तं सास्रवं च मनोविज्ञानं सोयमुच्यते विज्ञानधातुः । यदा ह्याध्यात्मिकाः पृथिव्यादि धातवो भवन्त्यविकलास्तदा सर्वेषां समवायाङ्गवति काय स्योत्पत्तिः । तत्र पृथिव्यादिधातूनां नैवं भवति वयं कायस्य काठिन्यादि निर्वर्तयाम इति । कायस्यापि नैव भवति । ज्ञानमयमेभिः प्रत्ययैरभिनिर्वन्ति इति । अथ च पृथि व्यादिधातुभ्यो ऽचेतनेभ्यश्चेतनान्तरानधिष्ठिनेभ्योडुरस्येव का यस्योत्पत्तिः सोयं प्रतीत्य समुत्पादो दृष्टत्वान्नान्यथयितव्यः। तत्रैतेष्वेव षट्सु धातुषु यैकसंज्ञा पिण्डसंशा नित्यसंज्ञा सु


(१) अभिनंर्यतैयति–पा २॥
(२) श्रसप्रश्वसादि-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४२४&oldid=141169" इत्यस्माद् प्रतिप्राप्तम्