पृष्ठम्:भामती.djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा.२.१७]
[भामती]
[४१०]

संयोगो, यथा स्थाणुश्येनयोर्मलयोर्वा । न च तन्तुपटयोः संबन्धस्तथा, उत्पन्नमात्रस्यैव पटस्य तन्तुसंबन्धात् । तस्या त्समवाय एवायमित्यत आच । ‘यथा । चोत्पन्नमात्रस्ये’ - ति । संयोगजोपि चि संयोगो भवद्भिरभ्युपेयते न क्रि याज एवेत्यर्थः । न चाप्राप्तिपूर्विकैव प्राप्तिः संयोग, आ त्माकाशसंयोगे नित्ये तदभावात् । कार्यस्य चोत्पन्नमात्र चैकस्मिन् क्षणे कारणप्राप्तिविरहाच्चेति ( । अपि च संब न्धिरूपातिरिक्त संबन्धे सिद्धे तदवान्तरभेदाय लक्षणभेदो ऽनुमीयेत स एव तु संबन्ध्यतिरिक्तो ऽसिड्, उक्तं च परस्तादतिरिक्तः संबन्धिभ्यां संबन्धो ऽसंबड्रो न संबन्-ि नै घटयितुमीठेसंबन्धिसंबन्धे (१) चानवस्थितिः । तस्मा दुपपद्यनुभवाभ्यां न कार्यस्य कारणादन्यत्व,मपि । तु का रणस्यैवायमनिर्वाच्यः परिणामभेद इति । तस्मात्कार्यस्य कारणदनतिरेकाकि केन संबद्दम् । संयोगस्य च संयो गिभ्यामनतिरेकान् कस्तयोः संयोग इत्याह । “नापि सं. योगस्ये”ति । विचारासहत्वेनानिर्वाच्यतामस्यापरिभावयन शङ्कते । ‘संबन्धिशब्दप्रत्ययव्यतिरेकेणे”ति । निराकरो ति । "नैकत्वेपि स्वरूपबाह्यरूपापेक्षये”ति । तत्तदनिर्व चनीयानेकविशेषावस्थाभेदापेक्षयैकस्मिन्नपि नानाबुद्विव्यप देशोपपत्तिरिति । यथैको देवदत्तः स्खगतविशेषापेक्षया मनुष्यो ब्राह्मणोवदातः खगतावस्थाभेदापेक्षया बालो ( सुवा स्थविरः, खक्रियाभेदपेक्षया श्रोत्रियःपरापेक्ष


, . ,वये-पू० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४१५&oldid=141160" इत्यस्माद् प्रतिप्राप्तम्