पृष्ठम्:भामती.djvu/४०३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[अ.२ पा.२.१२]
[भामती]
[३६८]

गोत्पल्यर्थमुभयथापि न कर्मातः सर्गतः संयोगस्याभावात् प्रलयहेतोर्विभागस्याभावात् तदभाव, तयोः सर्गप्रलययोर भाव इत्यर्थः । तदेतत्सूत्रं तात्पर्यतो व्याचष्टे । "इदानों पर मार्कारणवाद"मिति । निराकार्यरूपमुपपत्तिसहितमा च। 'स च वाद” इति । “खानुगतैः” खसंबद्धेः । संबन्ध श्वाधार्याधारभून(१) इच प्रत्ययचेतुः समवायः । पच्चमत स्यानवयवत्वात्२) तानीमानि चत्वारि भूतानीति । तत्र पर माणुकारण वादे इदमभिधीयते सूत्रम् । तत्र प्रथमां व्या ख्यामाच । ‘कर्मवता’मिति । अभिघातादीत्यादिग्रचणेन नोदनसंस्कारगुरुत्वद्रवत्वानि गृह्यन्ते । नोदनसंस्कारावभि घातेन समानयोगक्षेमे गुरुत्वद्रवत्वे च परमाणुगते सदातने इति कर्मसातत्यप्रसङ्गः । द्वितीयं व्याख्यानमाशङ्पूर्वमाच । "अथादृष्टं’ धर्माधर्म, "शाद्यस्य कर्म” इति। "आत्मन धेरै क्षेत्रज्ञस्यानुन्पन्नचैतन्यस्येति । "अदृष्टवता परुषेणे' - ति । संयुक्तसमवायसंबन्ध इत्यर्थः । “संबन्धस्य सातत्या दि"ति । यद्यपि परमाणुशेत्रज्ञयोः संयोगः परमाणकर्म जस्तथापि तत्प्रवादस्य सातत्यमिति भावः । सर्वात्मना चे दुपचयाभाव, एकदेशेन किं संयोगे यावखोरेकदेशे नि रन्तरं ताभ्यामन्ये एकदेशाः संयोगेनाव्याप्ता इति प्रथि मोपपद्यते । सर्वात्मना तु नैरन्तर्ये परमाणावेकस्मिन्यर माण्खन्तराण्यपि संमान्तीति() न प्रथिमा स्यादित्यर्थः । श


(१) धरभाव-पा० १ । २ । ३ ।
(२) पञ्चमभूतस्यावयवत्वाभावात्-पा० १ । २ ।
(3) संमितानीत-पा० 3 ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४०३&oldid=141145" इत्यस्माद् प्रतिप्राप्तम्