पृष्ठम्:भामती.djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ ष.२ ष.११]
[भाभती]
[३६६]

वाशब्दश्चार्थे ऽनुक्तसमुच्चयार्थः । यथा द्यणुकमणुह्ख परिमाणं परिमण्डलात्परमाणोरपरिमण्डलं जायतएवं चे तनाब्रह्मणो ऽचेतनं जगन्निष्यद्यतइति ख़त्रयोजना । भाष्ये “परमाणुगुणविशेषवि"ति । पारिमाण्डल्यग्रहणमुपलक्षणं न ह्यणुके ऽणुत्वमपि परमाणुवनि() पारिमाण्डल्यमा रभते, तस्य द्वि दिवसंख्यायोनित्वादित्यपि द्रष्टव्यम् । ह्खपरिमण्डलाभ्यामिति यं गुणिपरं न गुणपरम् । “य- दापि वेदो ह्यणुके” इति पठितव्ये प्रमादादेकं पदं न प ठितम् । एवं चतुरणुकमित्याद्युपपद्यते । इतरथा चि छणुकमेव तदपि स्यात्, न तु मञ्चदित्युक्तम् । अथ वा हे इति दियेयथा वृकयोर्विवचनैकवचने इति । अत्र द् िहित्वैकत्वयोरित्यर्थः । अन्यथा दूव्येकेष्विति स्या संख्येथानां बहुत्वात् । तदेवं योजनीयम् । द्व्यणुकाधिक रणे ये द्वित्वे ते यदा चतुरणुकमारभतं संख्येयानां चतुर्णा दुव्यणुकानामारम्भकत्वात्तत्तङ्गते द्वित्वसंखये अपि आर म्भिके इत्यर्थः । एवं व्यवस्थितायां वैशेषिकप्रक्रियायां त दूषणस्य व्यभिचार उक्तः । अथाव्यवस्थिता तथापि तद वस्थ व्यभिचार इत्याच । “यदापि बहवः परमाणव' इति । नाणु जायते ने हुखं जायते इति योजना । चोदयति । “अथ । मन्यसे विरोधिना परिमाणान्तरेण” खकारणद्वारेणाक्रान्तत्वादिति । परिहरति । “मैवं में स्था” इति । कारणगता गुणा न कार्यं समानजातीयं


(१) परमाणुगतं-पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४०१&oldid=141143" इत्यस्माद् प्रतिप्राप्तम्