पृष्ठम्:भामती.djvu/३४४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[भामती]
[अ.२ पा-१बर]
[३३९]

पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादीनां तत्कस्य हेतोरस्य कार्यभेदस्य प्रमाणान्तरागोचरत्वात् । एवं भूतत्वाविशेषेपि पृथिव्यादीनां मानान्तरगोचरत्वं, न तु भूतस्यापि च ह्मण,स्तस्याम्नायैकगोचरस्यातिपनितसमस्तमानान्तरसीमतया स्तृयागमसिद्धत्वादित्यर्थः । यदि मृत्यगमसिडें ब्रह्मणस्त कॅविषयत्वं, कथं तर्हि श्रवणातिरिक्तमननविधानमित्यत आव । "यदपि । श्रवणयतिरेकेणे’ति । तर्क ड् िप्र माणविषयविवेचकतया तदितिकर्तव्यताभून१)स्तदाश्रये ऽस ति प्रमाणे ऽनग्राह्वस्याश्रयस्याभावात् श्रुष्कतया नाद्भि यतं । यस्त्वागमप्रमाणाश्रयस्तद्विषयविवेचकस्तदविरोधी स मन्तव्य इति विधीयते । “श्रुत्यनुशुचीत” इति। श्रुत्या अ वणस्य पश्चादितिकर्तव्यतात्वेन युवतो “ऽनुभवाङ्गत्वेने”ति । मते द् िभाव्यमाने भावनाया विषयतया ऽनुभूते भवतीति मननमनुभवाङ्गम्। "आत्मने ऽनन्वागतत्वमिति । खन्नाद्यव स्थाभिरसंपृक्तत्वमुदासीनत्वमित्यर्थः । अपि च चेतनकार णवादिभिः कारणसालक्षण्येपि | कार्यस्य कथं चिच्चैतन्यावि भवानाविर्भावाभ्यां विज्ञानं चाविज्ञानं चाभवदिति जगत्का रणे योजयितुं शक्यम् । अचेतनप्रधानकारणवादिनां तु दुर्यजमेतत् । नह्यचेतनस्य जगत्कारणस्य विज्ञानरूपता संभविनी, चेतनस्य जगत्कारणस्य सुषुप्ताद्यव्यवस्थाविव स तोपि चैतन्यंस्यानाविर्भावतया शक्यमेव कथं चिदविज्ञा नात्मत्वं योजयितुमित्याह । ‘यपि चेतनकारणश्रवणबले


(१) व्यतान्तभूत-पा० ३ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३४४&oldid=141049" इत्यस्माद् प्रतिप्राप्तम्