पृष्ठम्:भामती.djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-१ पा-४.२८]
[३२७]

एतेन सर्वे व्याख्याताः व्य ख्याताः॥ २८ ॥

निगदव्याख्यातेन भाष्येण व्याख्यातं त्रम् । प्रतिज्ञालक्षणं लक्ष्यमाणे पदसमन्वयः । वैदिकः स च तत्रैव नान्यत्रेत्यत्र साधितम् ॥ इति श्रीमद्वाचस्पतिमिश्रविरचिते श्रीमच्छारीरकभाष्य विभागे भामत्यां प्रथमाध्यायस्य चतुर्थः पादः ॥ सम्यूणश्च प्रथमोध्यायः ॥

स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्न
न्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥१॥

वृत्तवर्तिष्यमाणः समन्वयविरोधपरिवारलक्षणयोः सं गतिप्रदर्शनाय सुखग्रहणाय चैतयेः संक्षेपतस्तात्पर्यार्थमा हे । “प्रथमे ऽध्याय’इति । अनपेशवेदन्तवाक्यस्खरससिद्धस मन्वयलक्षणस्य विरोधतत्परिहाराभ्यामाक्षेपसमाधानकर णादनेन लक्षणेनास्ति विषयविषयिभावः संबन्धः । पूर्वल शणार्थं चि विषयस्तद्रेचरत्वादाक्षेपसमाधानयोरेष च वि षयीति । तदेवमध्यायमवतार्य तदवयवमधिकरणमवतार यति । “तत्र प्रथमं ताव”दिति । तनयतं व्युत्पाद्यते मोक्षसाधनमनेनेति तन्त्रं, तदेवाख्या यस्याः सा धृतिः तन्त्राख्या परमर्षिणा कपिलेनादिविदुषा प्रणता । अ .

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३३२&oldid=141037" इत्यस्माद् प्रतिप्राप्तम्