पृष्ठम्:भामती.djvu/३२८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[भामती]
[अ.१ पा.४ च.२२]
[३२२]

इति शङ्कां निराकर्तृ संगतिं दर्शयन् अवशेषमाच । ‘यथा युदये”ति । अत्र च लक्षणस्य संगतिमुक्वा । लक्षणेना स्याधिकरणस्य संगतिरुक्तता । एतदुक्तं भवति । सत्यं ज गत्कारणे ब्रह्मणि वेदान्तानामुक्तः समन्वयस्तत्र कारण भावस्योभयथा दर्शनाज्जगत्कारणत्वं ब्रह्मणः किं निमित्त त्वेनैव, उतोपादानत्वेनापि । तत्र यदि प्रथमः पक्षस्तत उपादानकारणानुसरणे सांख्यस्मृतिसिद्धे प्रधानमभ्युपेयम् । तथा च जन्माद्यस्य यत इति ब्रह्मलक्षणमसाधुः अति व्याप्तेः प्रधानेपि गतत्वात् । असंभवाद्वा । यदि तूत्तरः प शस्ततो नातिव्याप्तिर्नाप्यव्याप्तिरिति साधु लक्षणम् । सोय मवशोषः । तत्र

ईशापूर्वककर्तृत्वं प्रभुत्वमसरूपता ।
निमित्तकारणेष्वेव नोपादानेषु कर्वि चित् ॥

तदिदमाच । “तत्र निमित्तकारणमेव तावदिति । आगमस्य कारणमात्रे पर्यवसानादनुमानस्य तद्विशेषनि यममागमो न प्रतिक्षिपत्यपि त्वनुमन्यतएवेत्याच । “पारि शेष्याब्रह्मणेन्यदि”ति । ब्रह्मोपादानत्वस्य प्रसक्तस्य प्रतिषेधे ऽन्यत्राप्रसङ्गात्सांख्यस्मृतिप्रसिद्मानुमानिकं प्रधानं शिष्यत इति । एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानमुत तमादे शमित्यादिना, यथा २ सोमस्यैकेन मृत्पिण्डेनेति च इष्टान्त, प रमात्मनः प्राधान्यं स्वचयतः । यथा सोमशर्मकेन ज्ञा तेन सर्वे कठा ज्ञाता भवन्ति । एवं प्राप्तउच्यते । प्रकृ प्तिश्च । न केवलं ब्रह्मनिमित्तकारणं, कुतः। प्रतिज्ञाडष्टान्त

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३२८&oldid=141032" इत्यस्माद् प्रतिप्राप्तम्