पृष्ठम्:भामती.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१ पा.२रू. १]
[१६३]

मावगतेन चाणीयस्त्वेन ज्यायस्त्वं तदनुगुणतया व्याख्येयम् । व्याख्यातं च भाष्यकृता । एवं कर्मकर्तृव्यपदेशः सप्तमी प्रथमान्तता चाभेदेपि जीवात्मनि कथं चिङ्गदेोपचारेण राशिः शिर इतिवद् द्रष्टव्या। एतद्भोति च जीवविषयं जीवस्यापि देच्छादिबंच्हणत्वेन ब्रह्मत्वात् । एवं सत्यसंवकरूपादये ऽपि परमात्मवर्तिने जीवे ऽपि संभवन्ति, तदव्यतिरेकात् । त स्माज्जीव एवेपास्यत्वेन विवक्षिते, न परमात्मेति प्राप्तम् । एवं प्राप्त ऽभिधीयते ।

समासः सर्वनामार्थः संनिकृष्टमपेक्षते ।
तद्वितार्थे ऽपि सामान्यं नापेक्षाया निवर्तकः ॥
तस्मादपेशितं ब्रह्म ग्राह्यमन्यपरादपि ।
तथा च सत्यसंकल्पप्रभृतीनां यथार्थता ॥

भवेदेतदेवं यदि प्राणशरीर इत्यादीनां साक्षाज्जीववाच कत्वं भवेत् । न त्वेतदस्ति । तथाहि । प्राणः शरीरमस्येति सर्वनामाथे बजुव्रीचिः संनिहितं च सर्वनामार्थे संप्राप्य त दभिधानं पर्यवस्येत् । तत्र मनामयपदं पर्यवसिताभिधानं तदभिधानपर्यवसानायाल, तदेव तु मनेविकारो वा मनःप्र चुरं वा किमर्थमित्यद्यापि न विज्ञायते । तद्येनेष (१) शब्दः समवेतार्थ भवति स समासार्थः । न चैष जीवएव समवेतार्थे न ब्रह्मणोति, तस्याप्राणे हामना इत्यादिभिस्तद्विरचप्रति पादनादिति युक्तम् । तस्यापि सर्वविकारकारणतया वि काराणां च खकारणादभेदात्तेषां च मनेोमयतया ब्रह्मण


(१) तद्यत्रैष- पा० १ । २. । ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१७०&oldid=137046" इत्यस्माद् प्रतिप्राप्तम्