पृष्ठम्:भामती.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१पा. १ख. १७]
[१३७]

रसः सारे छूयमानन्दमव श्रांतमा रसं वायं लब्ध्वा ऽनन्दी भवतीति । सेयं जीवात्मने लब्धृभाव आनन्द मयस्य च लभ्यता नाभदउपपद्यत । । तस्मादानन्दमयस्य जीवात्मनेो भेदे परब्रह्मत्वं सिद्धं भवति । चेोदयति । “कथं तद्दीति । यदि लब्धा न लब्धव्यः, कथं तर्हि परमात्म नेो वस्तुतो ऽभिन्नेन जीवात्मना परमात्मा लभ्यतइत्यर्थः । परिहरति । “बाढं तथापीति । सत्यं परमार्थतेो ऽभेदे यविद्यारोपितं भेदमुपाश्रित्य लब्धृलब्धव्यभाव उपपद्यते । जीवेो ह्यविद्यया परब्रह्मणे भिन्नेो दर्शितः, न तु जीवा दपि । तथा चानन्दमयशेषेद् जीवेो न जीवस्याविद्ययापि खतो भेदा दर्शित इति न च लब्धलब्धव्यभाव इत्यर्थः । भदाभदा च न जीवपरब्रह्मणेरियुक्तमधस्तात् । स्यादे तत् । यथा परमेश्वराद् भिन्नेो जीवात्मा द्रष्टा न भवत्येवं जीवात्मनेोपि द्रष्टुर्न भिन्नः परमेश्वर इति जीवस्यानिर्वा च्यत्वे परमेश्वरोप्यनिर्वाच्यः स्यात् तथा च न वस्तु सन्नि त्यत श्राद्द । ‘परमेश्वरस्वविद्याकल्पिता'दिति । रजतं दि समारोपितं न शुक्तितेो भिद्यते । नहि तङ्गेनाभेदेन वा शक्यं निर्वक्तुं शक्तिस्तु परमार्थसती निर्वचनीयानिर्वचनी याद्रजताङ्गिद्यतएव । अत्रैव खरुपमात्रं दृष्टान्तमा । “यथा मायाविन' इति । एतदपरितेोषेणात्यन्तस्वरूपं दृष्टान्तमाच । "यथा वा घटाकाश'दिति । शेषमतिरेचितार्थम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१४४&oldid=136740" इत्यस्माद् प्रतिप्राप्तम्