पृष्ठम्:भामती.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१पा. १ रु. ५]
[भामती]
[१३०]

प्रसादा”दिति । यस्य भगवत ईश्वरस्य प्रसादात्तस्य नि त्वसिद्दस्येश्वरस्य नित्यं ज्ञानं भवतीति किमु वक्तव्यमिति येोजना । यथाज्ञयैगशाखकाराः । ततः प्रत्यक्चेतनाधिगमेो प्यन्तरायाभावयेति । तङ्गाष्यकाराश्य भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णाति ज्ञानवैराग्धादिनेति । “सविटप्रकाशव"- दिति । वस्तुत नित्यस्य कारणानपेक्षां खरूपेणावा तिरेकमुखेनाप्याच । “अपि चाविद्यादिमत' इत्यादि । श्रा दिग्रचणेन कामकर्मादयः संगृह्यन्ते । “न ज्ञानप्रतिबन्ध कारणरहितस्ये”ति । संसारिणां वस्तुते नित्यज्ञानत्वेप्यवि दद्यादयः प्रतिबन्धकारणानि सन्ति, न त्वीश्वरस्याविद्यारि तस्य ज्ञानप्रतिबन्धकारणसंभव इति भावः । न तस्य का र्यमावरणाद्यपगमे विद्यते, ऽनावृतत्वादिति भावः । अपा णिर्यचीता, ऽपादे जवने वेगवान् विचरणवान् ज्ञानबलेन । क्रियाप्रधानस्य त्वचेतनस्य ज्ञानबलाभावाज्जगते न क्रिये त्यर्थः । श्रतिरोहितार्थमन्यत् । स्यादेतत् । अनात्मनि व्ये त्रि घटाद्युपाधिकृतेो भवत्ववच्छेदविभ्रमेो, न त्वात्मनि ख भावसिद्धप्रकाशे स घटतइत्यत श्राह । “दृश्यते चात्मन एव सत” इति । “अभिनिवेशे' मिथ्याभिमानः । “मिथ्याबुद्वि मात्रेण पूर्वेणेति । अनेनानादिता दर्शिता । मात्रयचणेन विचारासचत्वेन निर्वचनीयता निरखता । परिशिष्ट निगद व्याख्यातम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१३७&oldid=136705" इत्यस्माद् प्रतिप्राप्तम्