पृष्ठम्:भामती.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१पा१.४]
[११७]

न्ता इति, तदनु भाष्यं दूषयति । “यत्पुनरुक्तं श्रवणात्य राचीनये'रिति । मनननिदिध्यासनयेोरपि न विधिस्तयेरन्ध यव्यतिरेकसिङ्घसाक्षात्कारफलयेोर्विधिसरूपैर्वचनैरनुवादात् । तदिदमुक्तम् । “अवगत्यर्थत्वा'दिति । ब्रह्मसाक्षात्कारेराव गतिस्तदर्थत्वं मननिदिध्यासनयेरन्वयव्यतिरेकसिद्धमित्य र्थः । अथ कस्मान्मननादिविधिरेव न भवतोत्यत श्राच । “यदि चूवगत”मिति । न तावन्मननिदिध्यासने प्रधान कर्मणो अपूर्वविषये अमृतत्वफले इत्युक्तमधस्तात् । श्रतो गणकर्मत्वमनयेारवघातप्रेक्षणादिवत् परिशिष्यते । तदप्य युक्तम् । अन्यत्रेोपयुक्तापयेच्यमाणत्वाभावादात्मनः । विशे षतस्खैपनिषदस्य कर्मानुष्ठानविरोधादित्यर्थः । प्रकृतमुपसं चरति । “तस्मा'दिति । एवं सिद्धरूपब्रह्मपरत्वमुपनिषदां ब्रह्मणः शाखार्थस्य धर्मादन्यत्वाङ्गिन्नविषयत्वेन शाखभेदाद् ‘अथाता ब्रह्मजिज्ञासेत्यस्य शाखारम्भत्वमुपपद्यतइत्याह । “एवं च स्तोति । इतरथा तु धर्मजिज्ञासैवेति न शा खान्तरमिति न शाखारम्भत्वं स्यादित्यत श्राच । “प्रतिप तिविधिपरत्व'दूति । न केवलं सिद्भरुपत्वाद्रात्मैक्यस्य धर्मादन्यत्वमपि तु तद्विरोधादपोयुपसंचारव्याजेनात् । “त- आदचं ब्रह्मास्मीति' । इतिकरणेन ज्ञानं परामृशति । विधये हि धर्मे प्रमाणं, ते च साध्यसाधनेतिकर्तव्यभेदाधि ष्ठाना धर्मेत्यादिनाच, तदधिष्ठाना न ब्रह्मात्मैक्ये सति प्र भवन्ति, विरेधादित्यर्थः । न केवलं धर्मप्रमाणस्य शाखा खेयं गति,रपि तु सर्वेषां प्रमाणानामित्याच । “सर्वाणि चे

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१२४&oldid=134994" इत्यस्माद् प्रतिप्राप्तम्