पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्यतिलाघवम् ॥ ज्ञातंमयेद्मधुनामतोभवतियद्वरुः ॥ ११ ॥नपरंप्रार्थयेद्वयस्तृष्णालाघवकारणम् ॥ आदौदुःखंतथामध्येदुःखमं तेचदारुणम् ॥ ११ ॥ निसर्गात्सर्वभूतानामतिदुःखपरंपरा । वर्तमानान्यतीतनिदुःखान्येतानियनितु ॥ ११२॥ नरानभावयं त्यज्ञानविरजंतितेनते ॥ अत्याहारान्महदुःखमनाहारान्महत्तमम् ॥ ११३॥ तुलितंजीवितंकटंमन्येऽप्येवंकुतःसुखम् ॥ बुभुक्षासर्वरोगा णांव्याधिश्रेष्ठतमःस्मृतः ॥ ११४॥ सचान्नौषधिलेपेनक्षणमात्रंप्रशाम्यति ॥ क्षुद्रयाधिवेदनातुल्यानिःशेषबलकुंतनी।॥ १६ ॥ तयाभि भूतम्रियतेयथान्यैव्र्याधिभिर्नरः ॥ तद्रसोपिहिकामाद्वाजिह्वाग्रपरिवर्तते ॥ १६ ॥ तत्क्षणाद्वार्द्धकालेनकंठंप्राप्यनिवर्तते ॥ इति ॥ नतत्सुखायमन्तव्यंपरमार्थेनपंडितैः ॥ १७ ॥ मृतोपमोयश्चक्षेतसर्वकार्यविवर्जितः ॥ तत्रा पिचकुतःसौख्यंतमसाच्छादितात्मनः॥१८॥प्रवाधेऽपिकुतसौख्यंकायैरुपहतात्मनः॥ कृषिगोरक्षवाणिज्यसेवावादिपरिश्रमैः॥१९॥ प्रातर्मूत्रपुरीषाभ्यांमध्याहेतुबुभुक्षया ॥ तृप्ताःकामेनबाध्यन्तेर्जतोऽििनिद्रया ॥ १२०॥ अर्थस्योपार्जनेदुःखमर्जितस्यापरक्षणे ॥ आयेदुःखंव्ययेदुःखमर्थेभ्यश्चकुतःसुखम् ॥ २१ ॥ चोरेभ्यसलिलाद्ग्रेस्वजनात्पार्थवादपि । भयमर्थवतांनित्यंमृत्योग्राणभृता मिव ॥ १२॥ यातंपक्षिभिर्मासंभक्ष्यतेश्वापदैर्भुवि ॥ जलेचभक्ष्यतेमत्स्यैस्तथासर्वत्रवित्तवान्। १२३॥विमोहयतिसंपूत्सुताप |यंतिविपत्तिषु ॥ खेद्यंत्यर्जनाकालेकंदाह्यर्थाःसुखावहाः ॥ १२४ ॥ यथार्थपतिरुद्विगोयश्चसर्वार्थनिःस्पृह ॥ यतश्चार्थपतिर्तुः खीसुखसिवार्थनिःस्पृहः ॥ १२५ ॥ शीतेनदुःखंहेमंतेग्रीष्मेतापेनदारुणम् ॥ वर्षासुवातवर्षाभ्यांकालेऽप्येवंकुतःसुखम् ॥ १२६॥|; विवाहविस्तरेदुःखंतभद्वहनेपुनः ॥ प्रसवेऽपत्यदॉपैश्वदुःखदुःखादिकर्मभिः ॥ १२७ ॥ दन्ताक्षिरांगैःपुत्रस्यहाकष्टकिंकरोम्य |हम् ॥ गावोनष्ठाकृषिर्भग्रावृषाकपिलायिताः ॥ १२८ ॥ अमीप्राधूर्णकायाभक्तच्छेदेचमेगृहे ॥ बालापत्याचमेभार्या कःकरिष्यतिरंधनम् ॥ १२९ ॥ प्रदानकालेकन्यायाःकीदृशाश्चवरोभवेत् ॥ इतिचिन्ताभिभूतानांकुतःसौख्यंकुटुंबिनाम् ॥ १३० ॥ १ कथम्-इ०पा० ॥