पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
कर्मपद्धतिः

निरूपणानन्तयेाग कर्मपद्धति निरूपयिष्यस्तत्रापि सर्वदेवनियामकत्वेन विधेस्तभियामकत्वेन कर्मण: - प्राबल्यमिति परम्परामनुविदधाति - नमस्याम इति...-देवानिन्द्रादीन्नमस्यामोऽभिवादयामः । न त्वेका- स्ततयतेषामेवाभिवाद्यत्वमेत नियामकस्य कस्यचिद्विधेः विद्यमान- स्वात्। सोऽप्यभिवाद्य एवेत्याशयेनाह - ते देवा अपि हतो यो विधिब्रह्मा तस्य। वशगा ननु नियम्याः खलु - अतो विधिरपि वन्धः नत्वस्यापि स्वातन्त्र्यमित्याह - सोऽपि विधिरपि। प्रतिनियतं यत्कर्मणः एकं फलं त इदातीति तथोक्तः यत्फलं कर्मणः प्रतिनियतं तत्पदो न तु स्वतन्त्र इत्यर्थः । तथाच फलं कर्मायत्तं यदि कर्माधीनं चेदपरैः देवैः किं? विधिना च किं? न किंचिदपोत्यर्थः । तस्यैव । फलदानवाम्यादिति भावः। तत्तस्मात्कर्मभ्यो ज्योतिष्ट्रोमतपोदानादि. रूपेभ्यो नमः ।, यतः विधिरपि। येभ्यः कर्मभ्यो न प्रभवति न समर्थो भवति स्वातन्त्र्येण प्रवृत्तेरभावादिति भावः ॥

 अब पूर्वपूर्वस्योत्तरोत्तरं प्रत्युत्कर्षावहत्वान्मालादीपकाख्योs लंकारः - तल्लक्षणं तूक्तम् ।।

ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डमाण्डोदरे
विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे ।
रुद्रो येन कपालपाणिपुटके भिक्षाटनं सेवते ।
है सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ ९३ ॥

 व्या...-यदुक्तं विधिरपि न येभ्यः प्रभवतीति तत्प्रपंचयति- प्रोति.---येन कर्मणा कर्ता ब्रह्मा चतुर्मुखो। ब्रह्माण्डमेव भाण्डं । तस्योदरे। कुलालेन कुम्भकारेण तुल्यं कुलालवनियमितः विविध-