पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५
दैवपद्धतिः

आयासस्तस्मादि रम विरम आभीक्ष्ण्येन विरतो भव नित्यवीप्सयो- रि त्याभीक्ष्ण्ये द्विरुक्तिः कोऽसावायास इत्याशङ्कायामाह - विपदि त्वत्कृतापदि। महतां महात्मनां धैर्यध्वंसं धीरत्वहासमीक्षितु- मीहसे काङ्क्षसे। यत् त्वमस्मादायासादिति संबन्धः तस्यासन्तासं- भावितत्वात्वदायासस्यैवावशिष्टत्वादिति भावः। कुतो वाऽसंभावि- तत्वमित्याशक्य दृष्टान्तमुखेन द्रढयति - कल्पापाये कल्पान्तेऽपि अतिसंकटेऽपि किमुतान्यदेति भावः. अपेताः विनष्टाः - विजक्रमा: खमर्यादाः - येषां ते तथोक्तास्सन्तः। एते कुलशिखरिणो महे- न्द्रादिसप्तकुलाचला वा। जलराशयस्सप्तसमुद्रा वा क्षुद्रा नीचा: न खलु - किं त्वत्यक्तमर्यादा एव वर्तन्ते। अतः दृष्टान्तेन धीर- धैर्यध्वंसनस्यातिदुष्करत्वावदायास एवावशिष्टो न तु फललाम इति भावः,

“ महेन्द्रो मलयस्सह्यस्सानुमानृक्षपर्वतः ।
विन्ध्यश्च पारियात्रश्च सप्तते कुलपर्वताः ॥"
'लवणेनुसुरासपिर्दधिक्षीरजलार्णवाः ॥' इति.

देवेन प्रभुणा स्वयं जगति यद्यस्य प्रमाणीकृतं
ततस्योपनमेन्मनागपि महानैवाश्रयः कारणम् ।
सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यह
सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः॥ ९१ ॥

 व्या.---तथाऽपि देवमेव शरणमित्याह - दैवेनेति,-प्रभुणा समर्थेन । जगति लोके। यस्य पुंसो। यद्वस्तु । प्रमाणीकृतं निर्दिष्ठं ।