पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
नीतिशतके

महाफलेन पृथुलतरफलेन। अस्य खार्वाटस्य शिरः। स्वशिरश्शब्देन पटपटायमानेन सहितम्। सशब्दं यथा तथा । भग्नं विदळितं; ननु कुत एतदित्याशङ्कय दैवप्रातिकूल्यादित्याह - दैवहतको दैवोपहतः दैवानुग्रहशून्य इत्यर्थः। यत्र यस्मिन् देशे गच्छति - यं देशमुहिश्य गच्छति। तत्र तमुद्धिशयैवापद उपद्रवा अपि। प्रायो भूना। यान्ति तदेतन्मशकमयागामं विहाय गच्छतोऽरण्ये व्याघ्रग्रहणमभूदित्यर्थः ।।  शार्दूलविक्रीडितम् ।।

गजभुजङ्गविहङ्गमबन्धनं शशिदिवाकरयोग्रहपीडनम् ।
मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मतिः।।

 व्या.-अतो दैवमेव बलीय इति मम मतिः प्रवर्तत इत्याह - गजेति.--अयं स्पष्टार्थः, यतोऽत्यन्तदुर्ग्रहाणां गजा- दीनां बन्धनं । जगत्प्रकाशकयोस्सूर्याचन्द्रमसोः राहुग्रहपीडनं । मतिमतां प्राज्ञानां। दरिद्रतामकिंचनत्वं च। विलोक्य दृष्ट्वाऽपि । अहो आश्चर्यम्; अतस्सर्वस्यापि देववलीयस्त्वं मन्ये। दैवमेव मूलमिति तात्पर्यम्. द्रुतविलम्बितम् .

सृजति तावदशेषगुगाकरं पुरुषरत्नम लङ्करगं भुवः।
तदपि तत्क्षणभङ्गिः करोति चेदहह कष्ट नपण्डितता विधेः ॥

 व्या.–एवं चेद्विधेरप्यज्ञता स्यादित्याशयेनाह - सृज- तीति.---विधिरशेषगुणाकरं सकलसद्गुणाश्रयं भुवोऽलंकरणं मण्डनं । पुरुषरनं पुरुषश्रेष्ठं। मुजति तावनिर्माति खलु । ततः किमत आह - तदपि तथाऽपि सृजनपीत्यर्थः। तत्पुरुषरनं मणमणि