पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१
देवपद्धतिः

मूषकमांसेन। नृतस्सन्। तेनैव पथा विवरेण। सत्वरं शीघ्रं । यातः बहिनिर्गत्य पलायितः हे जना इति शेषः । स्वस्थाः स्थिर- चिनास्सन्तः । तिष्टत । कुतः वृद्धौ क्षये च देवमेव। परमुत्कृष्टं । 'भारणं हि नत्वन्यदतो मूषकभोगिदृष्टान्तेन स्वस्थैर्भाव्यं । न तु वृथा। पौरुषैरिति भावः.

यथा कन्दुकपातनोत्पतत्यायः पतन्नपि।
तथा त्वनार्यः पतति मृत्पिण्डिपतनं यथा ॥ ८४ ॥

 व्या.-अथ देवायतिकतदन्ययोरवस्थामाह . यथेति.- आर्यो दैवायतिकः। पतन्नपि कुतश्चित्कारणानीचैर्भवन्नपि कन्दुक- पातेन दृष्टान्तेनयथोत्पतत्युच्छ्रयं प्राप्नोति। तथा तद्वदेव अनार्यः मृपिण्डपतनं यथा सान्द्रमृत्कबलमिव 'इववद्वायथाशब्दा' विति दण्ड्याचार्यानुशासनात् । पतति निलीनो भवतीत्यर्थः ।।

खर्वाटो दिवसेश्वरस्य किरणः सन्तापिते मस्तके
गच्छन्देशमनातपं विधिवशात्तालस्य मूलं गतः ।
तत्राप्यस्य महाफलेन पतता भने सशब्दं शिरः
प्रायो गच्छति यत्र दैवहतकत्तत्रैव यान्त्यापदः ॥ ८५ ॥

 व्या.---दैवोपहतस्य न कुत्रापि सुखप्राप्तिरित्याह - खाट इति.---खाटः स्वभावलुप्तलोमशिरस्कः - मस्तकं निजशिरसि । दिवसेश्वरस्य सूर्यस्य । किरणैस्संतापिते सति। अनातपमातपशून्य देशं प्रति । द्रतगतिः शीघ्रगमनः । गच्छन् । तालस्य ताळवृक्षस्य । मूलं गतः तालाधस्सात्तिष्ठति । तत्र ताळमूलेऽपि । पतता वृन्तादकता