पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
नीतिशतके

धिग्धिगिति *'नित्यवीप्सयो' रित्याभीक्ष्ण्ये द्विशक्तिः। तद्योगात्पौरुष- मिति द्वितीया ; अतः पौरुषस्याकिंचित्करत्वमेवाश्रयणीयमिति भावः,

 उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी
दैवं प्रधानमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिद्धति कोऽत्र दोषः ?

इत्यादिवधनस्य अयमेव दत्तजलाञ्जलिरिति वेदितव्यम् ।।

 अब साभिप्रायविशेषणत्वात्परिकरालंकारः - “सामिप्राय- विशेषणं परिकर" इति ॥

भग्नाशस्य करण्डपिण्डिततनोम्ल्रोनेन्द्रियस्य क्षुधा
कृत्वाखुर्विचर स्वयं निपतितो नक्तं मुखे भोगिनः ।
तृप्तस्तपिशितेन सत्वरमसौ तेनैव यातः पथा
खस्थास्तिष्ठत दैवमेव हि परम् वृद्धौ क्षये कारनणम् ॥ ८३ ॥

 व्या.--अथ बन्धमोक्षयोहोनिवृद्ध्योश्चापि दैवमेव कारण. मित्याह - भन्नेति--आखुर्मूषकः कर्ता । नक्तं रात्रौ । विवरं बिलं । करण्डस्यैवेति भायः। कृत्वा। भग्नाशस्य भुमत्वाद्धममनोरथस्य । करण्डे पिण्डिकायां - पिण्डता पुञ्जीकृता - तनुर्यस्य तथोक्तस्य । विहारप्रसारशून्यतयाऽतिकृच्छ्रदशामापनस्येत्यर्थः। क्षुधा बुभुक्षा- व्यसनेन । म्लानेन्द्रियस्य विनष्टेन्द्रियपाटवस्य। भोगिनः सर्पस्य । मुखे . स्वयमेव दैववशानिपतितः। ततोऽसौ भोगी। सपिशितेन