पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
॥ दैवपद्धतिः ॥

नेता यस्य बृहस्पतिः प्रहरणं वनं सुराः सैनिकाः
स्वर्गो दुर्गमनुग्रहः खलु हरेरैरावणो वारणः ।
इत्याश्चर्यबलान्वितोऽपि बलभिद्भग्नः परैः सङ्गरे
तद्व्यक्तं ननु दैवमेव शरणं धिग्र धिग्र वृथा पौरुषम् ॥ ८२ ॥

 व्या.--- अथ धैर्यशीलयोरपि दैवायत्तत्वात्तन्निरूपणानन्तरं दैवपद्धति निरूपयति - नेतेति.-~यस्य बलिभिदः । नेता शिक्षकः हिताहितोपदेशकर्ता। बृहतां वाचां पतिर्बृहस्पतिः - न तु यः कश्चित् * तद्बृहतोः करपत्योश्चोरदेवतयोस्सुड्तलोपश्चेति सुडागम- तलोपौ। प्रहरणम् आयुधं प्रहारसाधनं तु। वज्रं वज्रायुधं - पर्वत- पक्षच्छेदनेऽप्यकुपिठतमिति भावः • न तु यत्किंचिदयोमयं। सैनि- कास्सुराः - न तु दुर्बललौकिकाः। दुर्गं गुप्तिस्थानं । स्वर्गः स्वर्ग- लोकः - न तु मृत्पाषाणादिनिर्मितम् । अनुग्रहः परिपालनतात्पर्यं । हरेः खलु सकललोकाधीश्वरस्य विष्णोः - तस्यावरजभावनावती- र्णत्वादिति भावः। न तु क्षुद्रदेवतायाः। वारणो गजः ऐरावतः न तु यः कश्चित्कलभः । इत्यनेन प्रकारेण स बलभिदिन्द्रः। आश्च- र्यबलान्वितोऽसाधारणत्वादद्भुतकरशक्तिसद्दितोऽपि। संगरे रणे। परैर्दानवैर्भग्नो विदारितः । तत्तस्मात्कारणाद्व्यक्तं स्फुटं यथा सथा। दैवमेव । शरणं रक्षकं । न तु । पुरुषस्य कर्म पौरुषं हाय- नान्तयुवादिभ्योऽणि’ति युवादित्वादण् - नि. 'पौरुषं पुरुषस्योक्ते भावे कर्मणि तेजसी’ति विश्वः - पौरुषं पुरुषकारं। धिग्धिक् पौनःपुन्येन निन्द्यमित्यर्थः। वृथा व्यर्थमप्रयोजकत्वादिति भावः ।