पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
नीतिशतके

मवसानं। न प्रययुः मथनादिति शेषः - सुधोत्पत्तिं विना न विरता इत्यथः - अनने शीलसंपत्तिरुक्ता । तथाहि - धीरा मन- स्विनी निश्चितार्थात् प्रतिज्ञातार्थान्न विरमन्ति विरामं न प्राप्नुवन्ति - ' किं त्वा फलोदयं प्रयतन्त एवेत्यर्थः। अतो धैर्यशीलसंपन्नानां देवाना- मपीदं युक्त मेवेति भावः * 'जुगुप्सा विरामे'त्यादिना पञ्चमी

  • व्या्ङ्परिभ्यो रम' इति परस्मैपदम्.

 अर्थान्तरन्यासोऽलंकार:. वृत्तमुपजातिः.

प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विनिहता विरमन्ति मध्याः ।
र्विनैर्महुर्मुहुरपि प्रतिहन्यमानाः
प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ ७३ ॥

 व्या..--उक्तमेवार्थ नीचातिवृत्तिकथनद्वारा द्रढयति - प्रार- भ्यत इति.-नीचैरधमैः विघ्नेभ्योऽन्तरायेभ्यो - यद्भयं तेन हेतुना। न प्रारभ्यते खलु - नोपक्रम्यते कार्यमिति शेषः - नि. 'विघ्नोऽन्तरायः प्रत्यूह' इत्यमरः , मध्याः मध्यमास्तु। कार्य प्रार- भ्योपक्रम्य। विघ्नैर्निहता विह्वलीकृतास्सन्तो विरमन्ति। विरता भवन्तीत्यर्थः । उत्तमाः उत्कृष्टाः - गुणा धैर्यशीलादयो - येषां ते तथोक्ताः पुरुषश्रेष्ठास्तु विघ्नैर्मुहुर्मुहुः पौनःपुन्येन। प्रतिहन्यमाना: बम्भज्यमाना। अपि। प्रारब्धमुपक्रान्तं कर्म । न परित्यजन्ति ; अतः कालकूटबडबानलादिविघ्नाद्युपहतत्वेऽपि उक्तगुणसंपन्नतया देवानां सुधोत्पत्तिपर्यन्तं मथनं युक्तमिति श्लोकद्वयस्यापि तात्पर्यम्.