पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
नीतिशतके

रिक्तजनाः । अबोधेनाज्ञानेन - उपहता नष्टात्मानस्ते न त्वधिकारिणः- अतस्तेषामाकर्णनयोग्यताऽपि नास्तीति भावः । तस्मात् सुभाषितं साधुभाषणं - प्रियवचनमिति यावत् - नपुंसके भावे क्तः। अङ्गे- ऽन्तरङ्गे। जीर्णमन्तर्हितं . न त्वद्यापि बहिः प्रवृत्तम् - तथाऽपि वक्ष्यार्माति वाक्यशेषः । वृत्तं पूर्ववत् ॥

अज्ञः सुखमाराध्यस्सुखतर माराध्यते विशेषज्ञः ।
ज्ञानलवदुर्विदग्धं ब्रह्मापि, नरं न रञ्जयति ॥

 व्या.--ननु कीदृशो मूर्खः यतस्तत्स्वरूपं निरूप्यते । तत्राह.-अज्ञ इति..----न जानातीत्यज्ञः अकिंचिज्ज्ञः मूढ इति यावत् । सुखमक्लेशेन। आराध्यः समाधेयः • तस्योपदेशमात्रेणैव विस्रम्भसम्भवादिति भावः। विशेषं जानातीति विशेषज्ञः तत्त्व- वेत्ता। सुखतरमत्यन्तानायासनेत्यर्थः - 'द्विवचनविभज्ये 'त्यादिना तरप् प्रत्ययः । आराध्यते समाधीयते - तद्बुद्धेः सर्वदा विशेषग्रहण- मात्रपर्यवसानादिति भावः । किं तु। ज्ञानं शास्त्रजन्यसंवित् तस्य लवेन दुर्विदग्धं पण्डितमानिनम् । नरं मूर्खजनमित्यर्थः। ब्रह्माऽपि कर्तुमकर्तुमन्यथाकर्तुं समर्थश्चतुर्मुखोऽपि - किमुतान्य इति भावः । न रञ्जयति रञ्जयितुं न शक्नोति - तन्मनसः सूक्तिसहस्रैरपि समा-- धानासंभवादिति भावः । उक्तोभयमध्यस्थो मूर्ख इति फलितार्थः ॥

 रञ्जनसंबन्धेऽप्यसंबन्धाभिधानादतिशयोक्तिभेदः । “अज्ञो। 'विशेषज्ञ' इत्यत्र च ' आतोऽनुपसर्गेक' इति कप्रत्ययो । न त्विगु- पघज्ञो 'त्यादिना कप्रत्ययः ; अत एवाह भगवान कात्यायनः " अकारादनुपसर्गात् कर्मोपपदो भवति विप्रतिषेधेने "ति वार्तिक-