पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
नीतिशतके

 व्या.--अथ सतां तावदसाधारणगरिमास्पदत्वेनाशेषो. पादेयत्वमाह - नम्रत्वेनेति--नम्रत्वेन प्रह्वत्वेनैवोन्नमन्त औन्नत्यं प्राप्नुवन्तस्तथा भावस्यैवोन्नत्यहेतुत्वादिति भावः । परेषां - गुणकथ- नैस्सद्णवर्णनैः । स्वान स्वकीयान् । गुणान् सौजन्यादीन् । ख्याप- यन्तः प्रकटयन्तः - नत्वात्मप्रशंसया - तादृग्भावस्यैव निजगुणप्रकट- नहेतुत्वादिति भावः । परार्थे परप्रयोजननिर्वहणे - विततो विस्तृतौ- पृधुत्तरौ-महत्तरौ चारम्भयत्नौ प्रारम्भोत्साहौ च येषां ते तथोक्तास्सन्त एव - स्वार्थान स्वप्रयोजनानि । संपादयन्तो निष्पादयन्तः । परकार्य- साधनपुरस्कारेणैवात्मीयकार्यसाधनतत्पराः न त्वेकान्तत इत्यर्थः - तथाभूतत्त्वस्यैवात्मार्थकत्वादिति भावः। क्षान्त्या सहनशीलत्वे वाक्षेपेण निन्दया • रूक्षाक्षराणि परुषवाक्यानि तैः मुखराणि वाचालानि - मुखानि एषां तान परुषभाषिण इत्यर्थः । दुर्जनान् खलान्। दुःखयन्तः सन्तापयन्तः-नत्तूच्चण्डतया - तथाविधत्वस्यैव तेषां हृच्छल्यप्रायत्वादिति भावः । अत एव साश्चर्यचर्या अत्यन्ताश्चर्य- करचरित्रास्सन्तस्सत्पुरुषाः। जगति लोके । बहुमताः बहुमानिता स्सन्तः। कस्यया पुंसो। नाभ्यर्चनीयाः न पूजनीया इति काकुः ; सर्वेषामप्यभ्यर्चनीया एवेत्यर्थः । स्त्रग्धरावृत्तम् - 'म्रभ्रैर्यानां त्रयेणा त्रिमुनियतियुता स्त्रग्धरा कार्तितेयमि'ति लक्षणात् ॥

इति नीतिशतके सुजनपद्धतिस्सम्पूर्णा ॥