पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मूर्खपद्धतिः

किरणावळ्यादायकृतेऽपि जातत्वादिति चेत् । सत्यं । क्वचिद्विघ्न- बाहुळ्येन तत्समसंख्याकमङ्गळाभावात् । क्वचित् प्राचीनमङ्गळ बाहुळयाच व्यत्यय ; इत्यलमतिप्रसङ्गेन ॥

 अत्र चारुत्वेन यथावद्वस्तुवर्णनात् स्वभावोक्तिरलंकारः - " स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णन"मिति लक्षणात् । श्लोकाख्य- मेतदानुष्टुभं वृत्तम् ।

“पञ्चमं लघु सर्वेषु सप्तमं द्विचतुर्थयोः ।
गुरुषट्कं च सर्वेषामेतच्छोकस्य लक्षणम् ॥"

इति वचनात् ॥

॥ मूर्खपद्धतिः ।।

बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।
अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् ॥२॥

 व्या::---प्रबन्धस्यास्य विविधस्वरूपपरिज्ञानार्थं तत्तत्पद्धति- निबन्धनतया चिकीर्षितत्वात् । तत्र मूर्खविद्वत्पद्धत्योार्व्यावर्तकभाव- स्याविशिष्टत्वेनोभयनिरूपणे संप्राप्ते। प्राथम्ये मुख्यप्रसङ्गसङ्गत्यो- रन्यतरस्याभावादशोकवनिकान्यायप्रायत्वाच्चादौ मूर्खपद्धतिं वर्णयितु- मारभते। तत्र प्रथमं सहदयाभावात् सुभाषितस्य वक्तुमनव- काश इत्याह-बोद्धार इति.--बोद्धारः परिजातारः * “बुध अवगमन" इत्यस्माद्धातोस्तृच् । मत्सरेणासूयया परोत्कर्षासहनेन - प्रस्ताः समाकान्ताः - ते न हृदयाळवः अतो नानुमोदन्त इति भावः । प्रभवो राजानः। स्मयदूषिताः गर्वदुर्विनीताः - न तु विनयप्रह्वाः - अतो न शृण्वन्तीति भावः। अन्ये उक्तोभयव्यति-.