पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
सुजनपद्धतिः

 व्या.---अथापत्संपदोस्सुजनमनोवृत्तिमाह - संपत्स्विती.--- संपत्सु धनधान्यवस्तुवाहनादिसमृद्धिषु। महतां महात्मनां सजनानां । वित्तमुत्पलवत्कोमलं मृदुलं भवेत्। न तु कठिनमित्यर्थः । आपत्सु दारिद्य्राद्यनर्थसंकटेपु। महाशैलशिलासंघातः पाषाणकूटः - तद्वत्कर्कश कठोरं च भवेत् • न त्वधैर्यविश्लथमित्यर्थः - न कदाऽप्युक्तवैपरीत्य- मन्यथा माहात्म्यभङ्गप्रसङ्गादिति भावः । विवेकिनामविवेकिनां चाय- मेव पन्थाः आदरणीय इति तात्पर्यम् : अत्र शैलस्य महत्त्वविशेषणं तच्छिलासंघातस्यात्यन्तदुर्भेद्यत्वद्योतनार्थम् - उक्तं चैतदन्यत्रापि -

" सौजन्यामृतसिन्धवः परहितप्रारब्धवीरव्रता
वाचालाः परवर्णने निजगुणालापे तु मौनव्रताः ।
आपत्स्वप्यविलुप्तधैर्यनिलयास्संपत्स्वनुत्सेकिनो।
माभूवन खलवक्रनिर्गतविषम्लानाननास्सज्जनाः ॥"

इति उपमालंकारः॥

प्रिथा न्याय्या वृत्तिमलिन नमुभङ्गेऽप्यमुकरं
त्वसन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः ।
विपद्युचैधैर्य पदमनुविधेयं च महतां
सतां केनोदिष्टं विषप्रमसिधाराव्रतमिदम् ॥ ५७ ॥

 व्या.-अथ द्वाभ्यामेव तद्वृत्तस्यासाधारण्यमाह - प्रियेति । न्यायादनपेता न्याय्या नीतिप्रवणा वृत्तिर्जीवनं-नि-वृत्तिर्वर्तन जीवन' इत्यमरः । प्रीणातीति प्रिया इष्टा - न त्वन्या - तस्या एव श्रेयस्करत्वादिति भावः 'इगुफ्धज्ञाप्रीकिरः कः' इतिक प्रत्ययः। असुभङ्गेऽपि प्राणप्रयासेऽपि किमुतान्यदेति भावः। मलिनं दुष्कर्म