पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/६३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
सुजनपद्धतिः

"अन्यदा भूषणं पुंसां शमो लज्जेव योषिताम् ।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव ।”

 इति वचनादिति भावः। खलैर्दुर्जनस्सह संसर्गमुक्तिस्सङ्ग- त्यागः - न तु तत्सहवासाभिलाष: * 'दुर्जनं दूरतस्त्यजे 'दिति - 'दुर्जनः परिहर्तव्य' इत्यादिवचनादिति भावः। इत्येते - निर्मलाः निष्कालङ्काः - गुणास्सज्जनसंगतिवाञ्छादयो। येषु पुरुषेषु वसन्ति ।- तेभ्यो महद्भ्यो नमः - इत्थं भूतगुणविशिष्टानामेव नमस्कारार्हत्वा- दिति भावः * 'नमस्स्वस्ती'त्यादिना चतुर्थी ; तैरेव भूर्भूषिते 'ति पाठे तैर्निर्मलगुणसंपन्नैरेव भूरलंकृता न त्वन्यैस्तेषामेव चारुत्वा- द्यतिशयहेतुत्वादिति भावः ॥  शार्दूलविक्रीडितम् ।।

विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरतिर्व्य॑सनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम्।।

 व्या.--अथैषां निसर्गसिद्धगुणं - गणयति - विपदीति.- विपद्यापत्काले। धैर्यंं निर्विकारचित्तत्वं - न तु दैन्यं - ‘मनसो निर्विकारत्वं धैर्यं सत्स्वपि हेतुध्विति । अथानन्तरं वाक्यारम्भे वा। अभ्युदये संपदि । क्षमा सहिष्णुत्वं - न सूचण्डता। सदसि राज- विद्वत्सभायां वाक्पटुता वाग्मित्वं - सरसवचनरचनाचातुर्यमिति यावत् - न तु मूकभावः। युधि रणरङ्गे। विक्रमः पराक्रमो - न तु पलायनम् । यशस्यभिरतिः संग्रहेच्छा - न त्वनादरः । श्रुतौ वेद- शास्त्राभ्यसने । व्यसनमासक्तिर्न तु निर्वेदः इतीदं सर्व * ' नपुंस- कमनपुंस केने'त्यादिना नपुंसकैकशेषः । महात्मनां महानुभावानां ।