पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/६२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
नीतिशतके

"घेतः प्रसादयति दिक्षु तनोति कीर्ति ।
सत्संगतिः कथय किं न करोति पुंसाम् ॥"

इति। परेवां गुणे - प्रीतिस्संतोषः - न तु दोषापादनम्-

"परगुणपरमाणून्पर्वतीकृत्य नित्यं
निजहृदि विकसन्तस्सन्ति सन्तः कियन्तः ॥"

इति वक्ष्यमाणत्वादपीति भावः । गुरौ विद्योपदेष्टरि । नम्रता भक्ति- श्रद्धाभरेण प्रह्वीभावः - न तु गर्वोद्रिक्तता-

" यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ।।
तस्यैते निखिला ह्यर्थाः प्रकाशन्ते महात्मनः ॥"

"गुरुब्रह्मा गुरुर्विष्णुर्गरुर्देवो जनार्दनः ।
गुरुस्साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥”

" इति श्रुतिस्मृती। विद्यायां वेदान्तादिविद्याभ्यासे । व्यसनमासक्ति:- न तु द्यूतकेळ्यादौ - तस्य मोक्षसाधनब्रह्मज्ञानजनकत्वादिति भावः । स्वयोषिति निजदारेषु। रतिस्संभोगः - न तु परदारेषु - " रम्यं कुल- स्रीरत"मिति भावः। लोकापवादात् लोकनिन्दायाः * 'भीत्रार्थानां भयहेतु 'रित्यपादानत्वात्पश्चमी - भयं न तु निर्लज्जत्वं * लोकाप- वादो बलवानिति सत्यवती क्षृति'रित्यादिवचनात्तस्य बलिष्ठत्वादिति भावः। शूलिनि परदेवतायां भगवति । भक्तिरनुरागः । न तु क्षुद्रदेव- तायां * 'शिवे भक्तिश्शिवे भक्तिरित्यादिवचनेष्वावृत्त्या तस्याः प्राशस्त्यश्रवणादिति भावः । आत्मदमने स्वपरिभवे सति। शक्ति- स्सामर्ध्ये पराक्रम इति यावत् - न तूपशमेनौदासीन्यम्.-