पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
नीतिशतके

 व्या.-कथं न समाश्रयणीय इत्याशङ्क्य तत्सेवाया दुष्क- रत्वादित्याह-मोनादिति। मॉनातूष्णीभावान्भूको निर्वचो भवति सेवक इति शेषः। प्रवचनपटुः प्रगल्भश्चातिवक्ता। वाचको बहुभाषी।। जल्पतीति जल्पकोऽसंबद्धप्रलापी - भवति । उभयत्रापि * " ण्वुल् तृचावि'ति कर्तरि ण्वुल्प्रत्ययः - णित्वाद्वृध्दिः - ' जल्पक' इति पाठे जल्पतीति जल्पक: - पचाद्यच् स्वार्थे कप्रत्ययः - अन्यथा * 'जल्पभिक्षे' त्यादिना षाकन्प्रत्यये जल्पाक इति स्यात् - यदाहामरसिंहः - नि! 'स्याजल्पाकस्तु वाचाल' इति । पार्श्व समीपे च। वसन् धृष्टो निर्भीको - भवति । दूरतो विप्रकृष्टदेशे। वसन्। अप्रगल्भः अप्रौढो - भवति । क्षान्त्या परिभवादिपूत्पद्यमानेषु क्रोधप्रतिबन्धलक्षणयोपलक्षितश्चेद्धीरुभयशीलो - भवति * 'मियः ऋकलुकनाविति ऋप्रत्ययः ।। न सहते परिभवादिकं न क्षमते। यदि तर्हि ! प्रायशो बाहुळ्येन। अभिजातस्सत्कुलीनो न नमवति। अतः। परमगहनोऽत्यन्तदुरवगाहः। सेवाधर्मः परिचर्यात्मकं कर्म योगिनामपि कालखयज्ञानामप्यत्तीन्द्रियवस्तुपरिज्ञानवतामित्यर्थः - किमुतान्येषामिति भावः। अगम्यो ज्ञातुमशक्यः - सर्वे गत्यर्थाः ज्ञानार्था - यतः परब्रह्माऽपि ध्यानादिना साक्षास्क्रियते न त्वय- मिति भावः; मौनादिव्यतिरिक्तधर्मस्य गगनारविन्दप्रायत्वात्तस्य ब्रह्मणोऽपि दुर्विज्ञेयतयाऽत्यन्तदुष्करत्वमिति तात्पर्यम् ॥  अत सेवाधर्मस्य योगिगम्यत्वेऽप्यगम्यत्वोक्तस्संबन्धे असंब- न्धरूपातिशयोक्तिः। मन्दाक्रान्तावृत्तम्-'मन्दाक्रान्ता जलधिषडगैर्मे। भनौ तौ गुरुचे'तिलक्षणात् ॥