पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५
दुर्जनपद्धतिः

दिति भावः; इत्येवं सप्त शल्यानि शूलानि - तथा दुस्सह- दुःखजनकत्वादिति भावः; इदमेवात्यन्तकष्टनिवेदनबचनमिति तात्पर्यम् ॥ अत्राप्रकृतानां प्रकृतस्य खलस्य च दुःखहेतुत्वसाम्येनौप- भ्यस्य गमामानत्वाद्दीपकालंकारः - लक्षणं तूक्तम् ।। गतमिदं पृथ्वीवृत्तम् ॥

न कश्चिच्चण्डकोपानामात्मीयो नाम भूभुजाम् ।
होतारमपि जुह्वानं स्पृष्टो दहति पावकः ॥ ४७ ॥

 व्या.-- अथ दुष्पराजलक्षणं सदृष्टान्तमाह.--चण्डको- पानाम् उग्रक्रोधानां । भूभुजां राज्ञां । कश्चिदपि पुमान् । आत्मीयो नाम आत्मीयत्वेन प्रसिद्धः। न भवति - किं तु सर्वोऽप्यनात्मीय एवेत्यर्थः । ननु यथा कथंचिद्धितमाचरन्भविष्यत्येव आत्मीय इत्या- सङ्क्य दृष्टान्तमुखेन निराकुर्वनाह.-जुह्वानमाज्यपुरोडाशादि- दानेनोपचरन्तमपि * 'हु दानादनयो रि'ति धातोः कर्तरि शानच् । होतारं यजमानं। पावकोऽग्निः । स्पृष्ठस्सन् दहति संतापयतीत्यर्थः ; अतोऽमिदृष्टान्तेनेदृशो राजा न समाश्रयणीय इति भावः ॥

* मौनान्मूकः प्रवचनपटुवाचको जल्पको वा
धृष्टः पार्क्ष्वे भवति च वसन् दूरतोऽप्यप्रगल्भः ।
क्षान्त्या भीरुयदि न सहते प्रायशो नाभिजातः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ ४८ ॥