पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
नीतिशतके

शुचि द्रोहचिन्तादिराहित्येम शुद्धम्। मनोऽस्ति यदि। तीर्थेनः प्रयागादिना कि ? तस्यैवापवर्गमूलकत्वादिति भावः-- "यस्वास्मतीर्थ भुजते विनिष्क्रियस्स सर्ववित्सर्वगतोऽमृतो भवेत् ॥" इति स्मरणमत्रमूलम्। सौजन्यं सुजनभावोऽस्ति यदि। बलेन परि- जनैन कि ? तस्यैवाशेषकार्यनिर्वाहकत्वादिति भावः। महिमा माहा- स्यमस्ति यदि । मण्डनैः कुण्डलहाराद्यलंकरणैः किं ? तस्यैवोपस्कार- हेतुभूतत्वादिति भावः। अपयशः अपकीर्तिरस्ति यदि मृत्युना मर- णेन किं ? तद्वत् मृतप्रायत्वादिति भावः; एवं विचार्य सद्गुणार्जन- तत्परेण भवितव्यं निपुणेन। अन्यथा दॉर्जन्यमनायाससाध्यामिति वाक्यशेषत्वेनोन्नेयम् ॥

शशी दिवसधूसरो गळितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतिस्सजनो
नृपाङ्गणगतः खलो मनसि सप्तशल्यानि मे ॥ ४६ ॥

 व्या.--कस्यचिदनुभविनो निजकष्टाभिवेदनमभिनीयाह - शशीति.--दिवसेऽह्नि। धूसरो निस्तेजस्कः । शशी चन्द्रश्च । गळित- यौवना भ्रष्टनूतनवयस्का। कामिनी कान्ता च । विगतवारिजं पुण्ड- रीकषण्डहीनम्। सरः कासारश्च । शोभना आकृतिर्यस्य सुन्दरपुरु- षस्य। अनक्षरं शास्त्रविभ्रष्टं मुखं च। धनपरायणो। धनलुब्धः । प्रभुः राजा च। सततदुर्गतिः निरन्तरदारिद्रयवान् । सजनश्च - नृपाङ्गणगतो राजगृहान्तर्वर्ती । खलो दुर्जनश्च - तस्य विधातुकस्वा-